________________
नीवसमासे हैमीवृत्ती.
॥१०५॥
समया भवन्ति तदिहाप्युपरिष्टाद् वक्ष्यामः, ताश्चावलिकाः सङ्ख्याता एक उच्छ्वासः ऊर्ध्वः श्वास उच्छ्वासः, उपलक्षणत्वाच्चेह नीचैरअन्तर्मुखं श्वसनं निश्वासः, सोऽपि सङ्ख्याता आवलिका इति द्रष्टव्यं, उच्छ्वासोपलक्षितो निःश्वास उच्छ्वासनिःश्वास इत्येतदुभयमपि सङ्ख्याता आवलिका इत्यपि मन्तव्यमिति गाथार्थः ।। १०६ ।। अयं चोच्छ्वासनिःश्वासोऽविशेषेण यस्य कस्यापि सम्बन्धी न गृह्यते अपितु विशिष्ट एव, प्राणुरिति चायं व्यपदिश्यत इति दर्शयन्नाह
esणगल्लुस्सासो एसो पाणुत्ति सन्निओ एक्को । पाणू य सत्त थोवो धोवा सत्तेव लवमाहू ॥ १०७ ॥
‘हृष्टस्य' प्रमुदितस्य ‘अनवकल्पस्य' जरसाऽपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं चानभिभूतस्येत्यप्युपलक्षणत्वाद् द्रष्टव्यं एवंभूतस्य प्राणिनः संबंधी यः एकदेशेन समुदायस्य गम्यमानत्वादुच्छ्वासनिःश्वास एष एकः प्राणुरिति संज्ञितः प्राणसंज्ञया सर्वज्ञैर्व्यवहृत इत्यर्थः, उकारस्यालाक्षणिकत्वात् प्राण इत्यपरे, रोगजरादिभिरस्वस्थस्य जन्तोरुच्छ्वासनिःश्वासस्त्वरितादिस्वरूपतयाऽस्वभावस्थो भवत्यतो हृष्टादिविशेषणोपादानमत्रेति भावनीयं एते च प्राणवः प्राणा वा सप्त समुदिताः स्तोक इत्युच्यते, स्तोकाच सप्त मिलिता लवमाहुस्तीर्थकरगणधरा इति गाथार्थः ॥ १०७ ॥ अपरंच
अट्ठत्तीसंतुलवा अद्धलवो चेव नालिय। होइ । दो नालिया मुहुत्तो तीस मुहुत्ता अहोरत्ता ॥ १०८ ॥ अष्टत्रिंशल्लवास्तथाऽर्द्धलवश्च नाडिका भवति, सार्थैरष्टत्रिंशल्लवैरेका घटिका भवतीत्यर्थः, द्वे तु नाडिके मुहूर्तः, त्रिंशन्मुहूर्त्तास्त्वहोरात्रमिति गाथार्थः ॥ १०८ ॥ अथैकस्मिन् मुहूर्त्ते य उच्छ्वासनिःश्वासा भवन्ति तानुपदर्शयन्नाह -
तिन्न सहस्सा सत्तय सयाणि तेसत्तरी य उस्सासा । एक्केकस्सेवइया हुंति मुहुत्तस्स उस्सासा ॥ १०९ ॥
श्वासादि
शीर्षप्रहे
लिकान्त
स्वरूपं.
॥१०५॥