________________
जीवसमासे
॥१०४॥
लिका च समयावलिके ते आदौ यस्य प्राणुस्तोकलवादेरसौ समयावलिकादिरनन्तरवक्ष्यमाणलक्षणः, नन्वयं कालः सामान्येन किं सान्तोऽनन्तो वा इत्याशङ्कयाह- 'अनंतकालोत्ति नायव्वोत्ति ' अयं च कालः सामान्यरूपतया विवक्षितोऽनन्तः - अपर्यवसित उपलक्षणत्वादनादिश्च भवति, न ह्ययं कदाचिदपि पूर्व नासत् नापि न भवति न चापि न भविष्यतीति गाथार्थः ॥ १०५ ॥ अथानेकविधत्वमेव कालस्य विवरीतुमाह
समयादिनिरूपणं.
कालो परमनिरुद्धो अविभागी तं तु जाण समओत्ति । तेऽसंखा आवलिया ता संखेज्जा य ऊसासो ॥१०६॥ सम्यक् तांस्तान् सर्वानप्यावलिकादीन् कालविशेषान् स्वप्रभवत्वेन एति गच्छति व्यामोतीति समयः, अथवा सम्यग् गीयन्तेपरिच्छिद्यन्ते स्थितिविशिष्टत्वेन पदार्था अनेनेति समयः, स च समय इत्येवं जानीहि अवगच्छ त्वमिति शिष्यसम्बोधनं, यः किमि - त्याह- कालः - कालविशेषः, कथंभूतः १ -' परमनिरुद्धः ' परमसंक्षिप्तः सर्वाल्प इत्यर्थः यस्मात्परतो नान्याऽल्पीयसी कालमात्राऽस्ति, किन्तु स एव सर्वाल्प इति भावः, अत एवाविभागी, परमनिरुद्धत्वादेव न विद्यते केवलिप्रज्ञाप्रच्छेदनेनापि छिद्यमानस्य विभागोविभेदः अंशो यस्यासौ अविभागी, यदि पुनस्तस्यापि विभागः स्यात्तदा परमनिरुद्धत्वमेव न स्यादिति हृदयं तस्मात् सर्वसूक्ष्मो निरंशः कालविशेषः समय इति स्थितं, एते च समया एकस्मिन्नप्यतीव कोमले उत्पलपत्रे तीक्ष्णसूच्या भिद्यमानेऽसंख्याताः सम- १॥ १०४ ॥ तिक्रामन्तीति मन्तव्यम्, पट्टसाटिकापाटनदृष्टान्तादिकं चेह बहु वक्तव्यं तच्चानुयोगद्वारेभ्योऽवसेयमिति, ते चासंख्याताः समया आवलिका भवति, असंख्यातं चासंख्येयैरेव भेदैरिहैवाभिधास्यते, तत्र यावत्परिमाणेनासंख्यातेनावलिकायामसंख्याताः