SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सो समयादिनिरूपणं. ॥१०॥ २ DASARASEARCAN भवनानि-असुरकुमाराद्यावासाः 'वर्षाणि ' भरतहैमवतहरिवर्षमहाविदेहादीनि, एतच्च हिमवदादिवर्षधरविमाननरकावासपृथिव्या| घन्तरालपातालकलशहदनद्यादीनामुपलक्षणं, एतन्मानस्य प्रमाणांगुलनिष्पन्नप्रमाणेनैव प्रमीयमानत्वादिति । अत्राह-ननूत्सेधांगुला- दीनां नारकशरीरादीनि प्रमेयत्वेनोक्तानि, तानि च द्रव्याण्येव, ततश्च द्रव्यप्रमाणमेवैतानि प्राप्नुवन्ति, तत् किमिति क्षेत्रप्रमाणमध्ये|ऽधीतानि?, नैवमभिप्रायमपरिज्ञानात्, नारकशरीरादिद्रव्यद्वारेण तदवगाढं क्षेत्रमेवात्र प्रमेयत्वेनोक्तं द्रष्टव्यमिति नैषां क्षेत्रप्रमाणता विरु ध्यते, यत्तु क्षेत्रमेव साक्षादिह तत्प्रमेयत्वने नोक्तं तत्तस्यामूर्तत्वेन मुख्यतः प्रमातुमशक्यत्वादिति भावनीयमिति गाथार्थः॥१०४॥ | तदेवं व्याख्यातं सविषयं त्रिविधमप्यंगुलं, तद्व्याख्यानप्रसङ्गेन च व्याख्याताः सर्वेऽपि 'अंगुल विहत्थी रयणी कुच्छी' त्यादिमूलगाथोपन्यस्ताः अलोकपर्यन्ताः क्षेत्रप्रमाणप्रविभागाः, तव्याख्याने च विवृता सर्वाऽपि मूलगाथा, तद्विवरणे च समर्थितं सर्वमपि प्रमाणद्वारस्य द्वितीयभेदरूपं क्षेत्रप्रमाणमथ तृतीयभेदस्वरूपं कालप्रमाणं निरूपयितुमाह - | कालेत्ति य एगविहो कालविभागो य होइ णेगविहो । समयावलियाईओ अणंतकालोत्ति णायव्वो ॥१०॥ इह जिनवरेन्द्रशासने सर्वमपि वस्तु सामान्यविशेषात्मकं, तत्र सामान्यरूपतया विवक्षितं सर्वमप्येकरूपमेव, यथा वनं, विशेषरूपतया तु है विवक्षितं सर्वमप्यनेकरूपं, यथा तदेव वनं धवखदिरपलाशसालतालतमालादिस्वगतभेदविवक्षायामनेकविधमिति । एवं च सति न्यग्भूतसमयावलिकादिस्वगतानेकभेदजालः कालोऽपि पूर्वोक्तशब्दार्थः काल इति सामान्यविवक्षायामेकविधः, एकप्रकार | एवेत्यर्थः, यदा तु तस्यापि कालस्य विभागो-भेदो विवक्ष्यते तदा स भवत्यनेकविधः, कथं अनेकविधो भवतीत्याह-समयाश्चाव - ॥१०३॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy