________________
जीवसमासेमा | अयमत्र भावार्थः- इहाष्टोत्तरांगुलशतोच्चत्वं लक्षणशास्त्रोक्तप्रमाणादिलक्षणयुक्तत्वस्योपलक्षणं, प्रमाणादिलक्षणसम्पन्ना हि पुरुषाः
आत्माप्रायेणाष्टोत्तरांगुलशतोच्चा एवेति तदिहोपन्यस्त, परमार्थतस्त्वष्टोत्तरांगुलशतमानाद्धीनाः समधिका वा ये यत्र युगे शास्त्रोक्तेन प्रमाणादि-18 IRI लक्षणेन युक्ताः पुरुषास्तेषां यदात्मीयर अंगुलं तदाऽऽत्मांगुलमिति विज्ञेयमिति गाथार्थः॥१३०॥आह-ननु निरूपितमेतद् उत्सेधांगुलादि-1 ॥१०२॥
उत्सेधाद्य
गुलमेयानि भेदात् त्रिविधर्मगुलं, किन्तु क्षेत्रप्रमाणभेदानां मध्येऽधीतत्वादिदं क्षेत्रप्रमाणत्वेन भवतामभिप्रेत, तत्र किं तत् क्षेत्रमनेन प्रमीयते येना | क्षेत्रप्रमाणताऽस्य भवेदित्याशङ्कच त्रिविधस्याप्यंगुलस्य प्रत्येकं प्रमेयं क्षेत्रमुपदर्शयबाह
देहस्स ऊसएण उ गिहसयणाई य आयमाणेणं । दीबुदहिभवणवासा खेत्तपमाणं पमाणेणं ॥ १०४॥
नारकादीनां 'देहस्य' शरीरस्य 'ऊसएण' उत्सेधांगुलेन प्रमाणं विज्ञायते, नारकतियङ्नरामराणां सर्वेषामपि सम्बन्धिनः शरीरस्य 'सत्त धणु तिनि रयणी छच्चव य अंगुलाई रयणाए। मुणसु पमाणं भवधारणीयदेहस्स निरयाणं ॥१॥ इत्यादिकं शास्त्रान्तरे यत् प्रमाणमुक्तं तदुत्सेधांगुलनिष्पन्ननैव वितस्तिहस्तादिना प्रमाणेन द्रष्टव्यं, नान्येनेत्यर्थः, गृहशयनादीनां तु प्रमाणमात्मांगुलेन विज्ञेयं, ये यस्मिन् काले प्रमाणपुरुषाश्चक्रवत्तिवासुदेवादयः पृथ्वीमण्डलस्य भोक्तारो भवंति तेषां सम्बन्धीनि ? यानि शयनासनगृहनगरादीनि वास्तूनि तानि सर्वाण्यात्मांगुलनिष्पन्नेनैव वितस्तिहस्तादिना प्रमाणेन मीयंते, नान्येनेति भावः,
॥१०२॥ "दीवुदहिभवणवासा खेत्तपमाणं" ति, 'वासा' इत्यत्र सकारस्य दीर्घत्वमलाक्षणिकं, ततश्च द्वीपोदधिभवनवर्षलक्षणस्य क्षेत्रस्य यत् | प्रमाणं-मानं तत् प्रमाणेन-प्रमाणांगुलनिष्पन्नेनैव योजनपर्यन्तेन प्रमाणेन मीयते नापरेणेत्यर्थः, तत्र द्वीपोदधयः प्रतीता एव
SAXTAKORXHIRXHIRIS