________________
५
आत्मा
| उत्सेधाचंगुलमेयानि
जीवसमासे
| वितस्ती हस्तः, तैश्चतुर्भिहस्तैर्धनुः, तेषां च धनुषां द्वे सहस्रे गव्यूतं, चत्वारि गव्यूतानि योजनमित्येतत् पूर्वोक्तं सर्वमिहापि द्रष्टव्यं, नन्वेवमपि सति योजनपर्यन्तमेव क्षेत्रप्रमाणं व्याख्यातं भवति, ये त्वन्येऽपि श्रेणिप्रतरादयो मूलगाथायां तद्भेदाः प्रोक्तास्तेऽद्यापि
न व्याख्याता इत्याशङ्कय तद्व्याख्यानार्थमाह॥१०॥
। तेणंगुलेण जं जोयणं तु एत्तो असंखगुणयारो । सेढी पयरं लोगो लोगा णता अलोगो य ॥१०२॥
तेन पूर्वोक्तप्रमाणांगुलेन यदनन्तरोक्तक्रमेण योजनं निष्पद्यते 'एत्तो'त्ति इत आरभ्य यथोत्तरमसङ्खथेयराशिस्वरूपो गुणकारो दीयते, ततः अनुयोगद्वारोक्तक्रमेण संवर्त्य घनीकृतसमचतुरस्रलोकस्यैका नमःप्रदेशश्रेणिर्भवति, तयाऽप्यसंख्यातगुणया दि यथोक्तरूपस्यैव लोकस्यैकप्रदेशमात्रपिण्डोऽसंख्येययोजनायामविष्कम्भो नमःप्रदेशप्रतरो भवति, तेनाप्यसंख्यातगुणेन यथोक्त
स्वरूपो लोकः सम्पद्यते, "लोगाणंता अलोगोय" ति, अलोकः पुनर्लोकैरनन्तैरेव भवति, नासंख्यातैर्निरवसानत्वात्तस्येत्यर्थ | इति गाथार्थः॥ १०२ ॥ तदेवं निरूपितं प्रमाणांगुलं, तत्प्रसंगतश्च पूर्वमव्याख्याताः श्रेण्यादयोऽपि व्याख्याताः, अथात्मांगुलं
प्रागुद्दिष्टक्रमप्राप्तं व्याख्यातुमाह| जे जम्मि जुगे पुरिसा अहसयंगुलसमूसिया हुंति । तेसि सयमंगुलं जे तयं तु आयंगुलं होइ ॥ १०३॥
ये पुरुषाश्चक्रवर्तिवासुदेवादयो यस्मिन् युगे-सुषमदुष्पमादिकाले निजांगुलैर्वाष्टोत्तरं शतमंगुलानामुच्छ्रिता-उच्चा भवन्ति, 'तेसि | सयमंगुलं जति तेषां स्वकीयांगुलेनाष्टोत्तरांगुलशतोच्चानां पुरुषाणां स्वकमात्मीयांगुलं तत् पुनरात्मांगुलं पूर्वोद्दिष्टस्वरूपं भवति,
CARSAARE
॥१०॥