________________
प्रमाणांगुलमानम्
14.96
मन् प्रमाणां गुरुत्वताएव भावात्, ततथैवं भातुसरूप पृथुत्वमस्ति, ततो यथास्तुकतवर्णन विष्कम्भेन शवण
ॐकन
RA
जीवसमासे प्रथमस्य चक्रवर्तिनः सम्बन्ध्येकमेवांगुलं मन्तव्यं । आह-नन्वेवं सति भरतचक्रिणः सम्बन्ध्यंगुलं प्रमाणांगुलामत्युक्तं भवति, एवं च सत्यु
त्सेधांगुलात् प्रमाणांगुलं चतुःशतगुणमेव स्यान्न सहस्रगुणं, तथाहि-भरतश्चक्रवर्ती आत्मीयांगुलेन किल विंशं शतमंगुलानामनुयोगद्वार॥१०॥
चूर्णादिषु निर्णीतः, उत्सेधांगुलेन तु पञ्चधनुःशतमानत्वात् प्रतिधनुश्च षण्णवत्यंगुलस्वभावत्वादष्टचत्वारिंशत्सहस्राण्यंगुलानामसौ सम्पद्यते, एवं च सत्येकस्मिन् प्रमाणांगुले उत्सेधांगुलानां चत्वार्येव शतानि भवन्ति, विंशत्यधिकशतेन प्रमाणांगुलानामष्टचत्वारिंशत्सहस्रसङ्घचस्योत्सेघांगुलराशेर्भागापहारे एतावत एव भावात्, ततश्चैवं भरतसम्बन्ध्यंगुललक्षणं प्रमाणांगुलमुत्सेधांगुलाच्चतुःशतगुणमेव स्यान्न सहस्रगुणमिति, सत्यमुक्तं, किन्तु प्रमाणांगुलस्या तृतीयोत्सेधांगुलरूपं पृथुत्वमस्ति, ततो यदा स्वकीयपृथुत्वेन वियुक्तं यथाऽवस्थितमेवेदं चिन्त्यते तुदोत्सेधांगुलात प्रमाणांगुलं चतुःशतगुणमेव भवति, यदा त्वर्द्धतृतीयोत्सेधांगुललक्षणेन विष्कम्भेन शतचतुष्टयलक्षणं प्रमाणांगुलदैय गुण्यते तदोत्सेधांगुलेनांगुलविष्कम्भा शतचतुष्टयदीर्घा च एका द्वितीयापि चेतावन्मानैव तृतीया तुदैर्पण चतुःशतमानैव विष्कम्भतस्त्वांगुलप्रमाणा, ततश्चैतस्या दैर्ध्याच्छतद्वयमपनीय विष्कम्भे योज्यते, तथा च सत्यंगुलशतद्वयदीर्घा
अंगुलविष्कम्भा चेयमपि सम्पद्यते, ततस्तिसृणामप्येतासामुपर्युपरिव्यवस्थापने उत्सेधांगुलेनांगुलसहस्रदीर्घा अंगुलविष्कम्भा प्रमाणाKगुलस्य सूचिः सिद्धा भवति, तत इमां सचिमधिकृत्योत्सेधांगुलात् प्रमाणांगुलं सहस्रगुणमुक्तं, वस्तुतस्तु चतुम्शतगुणमेव, अत एव
पृथ्वीपर्वतद्वीपपयोराशिीवमानादिमानान्यनेनैव चतुःशतगुणना तृतीयांगुललक्षणस्वविष्कम्भान्वितेनानुमायन्ते, न तु सहस्रदिगुणया अंगुलविष्कम्भया सूच्या इति तावदस्माभिः शास्त्रान्तरदर्शनात् वृद्धसम्प्रदायाच्चावगतं, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः
१०१॥ एतानि च षट् प्रमाणांगुलानि भरतचक्रवातेनः पादो मध्यतलदेशरूपः, तौ च युग्मीकृतौ द्वौ पादौ वितस्तिः, ते च द्वे
॥१०॥