SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ जीवसमासे प्रमाणांगुलमानम्. ॥९९॥ %ERAL हस्तौ कुक्षिानविशेषो भवति, अयं चास्यां गाथायामनुक्तोऽप्यध्याहृत्य द्रष्टव्यः, मूलगाथायामत्रापि पूर्वमुपन्यस्तत्वादागमे चोकत्वादिति गाथार्थः ॥ ९९ ।। अतः परं किमित्याह* चउहत्थं पुण धणुयं दुन्नि सहस्साई गाउयं तेसिं । चत्तारि गाउया पुण जोयणमेगंमुणेयव्वं ॥१०॥ चतुर्हस्तं पुनर्धनुर्भवति, कुक्षिद्वयमानं वा एतद्भवतीत्यपि समानार्थत्वाद् द्रष्टव्यम्, तेषां धनुषां द्वे सहस्रे गव्यूतं भवति, चत्वारि पुनः गव्यूतानि, योजनमेकं मुणितव्यं, एतच्च मूलगाथायामनुपन्यस्तमपि गव्युतभणनेनोपलक्षितत्वादागमेऽप्युक्तत्वादुपयोगित्वाचहोक्तामति गाथार्थः॥ १० ॥ अतः परं मूलगाथायां यद्यपि श्रेणीप्रतरादयोऽपि क्षेत्रप्रमाणप्रविभागा निर्दिष्टाः सान्त, तथाऽप्येतस्मिन्नुत्सेधांगुलनिष्पन्नप्रमाणविचारे न व्याख्यायन्ते, अप्रस्तुतत्वात् , नारकाद्यवगाहनामानविषयत्वेनैव ह्येतदुत्सेधांगुलप्रमाणमिहेव वक्ष्यते, तस्सिँश्च नरकाद्यवगाहनामाने योजनपर्यन्तमेव क्षेत्रप्रमाणं व्याप्रियते, अतः प्रस्तुतत्वादिह व्याख्यातं, श्रेण्यादिकं तु तत्राव्याप्रियमाणत्वेनेहाप्रस्तुतत्वान्न वाख्यायते, उपरिष्टात्तु तदपि व्याख्यास्यत इति । तदेवं निरूपितमुत्सेधांगुलं तनिष्पन्न च वितस्त्यादिकं क्षेत्रप्रमाणं, अथ क्रमप्राप्त प्रमाणांगुलं तनिष्पन्नं च वितस्त्यादिकं क्षेत्रप्रमाणमभिधित्सुराह उस्सेहंगुलमेगं हवह पमाणंगुलं दुपंचसयं । ओसप्पिणीए पढमस्स अंगुलं चक्कवहिस्स ॥११॥ | अनन्तरोक्तस्वरूपमेकमुत्सेधांगुलं द्विपञ्चशतं एकदेशेन समुदायस्य गम्यमानत्वाद् द्विपञ्चशतगुणमित्यर्थः, किं भवतीत्याह-प्रमाणांगुलं भवति, एकमुत्सेधांगुलं सहस्रगुणं सत् प्रमाणांगुलं सम्पद्यत इति भावः, इदं चोत्संधांगुलात् सहस्रगुणितं प्रमाणांगुळमस्यामवसप्पिण्यां 55ॐॐक्रम M॥९९॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy