________________
जीवसमासे
1186 11
46
44
न्तव्यः, भ्रमद्रथचक्रोत्खातो रेणू रथरेणुः, पूर्वः पोरस्त्यादिवातेषु चलति अयं तु तत्सद्भावेऽपि रथचक्राद्युत्खननमन्तरेण न चलतीत्यस्मात् पूर्वोऽल्पप्रमाण इत्यतोऽष्टाभिस्त्रसरेणुभिरेको स्थरेणुरापद्यते, इह च परमाणू रहरेणू तसरेणू " इत्यादिरेव पाठो बहुषु सूत्रादर्शेषु दृश्यते स चासंगत एव लक्ष्यते, रथरेणुमाश्रित्य त्रसरेणोरष्टगुणत्वानुपपत्तेः उक्तन्यायेन विपर्ययस्यैव घटनादिति, यदपि संग्रहणिसूत्रकृता परमाणू रहरेणू तसरेणु " रित्यादिरेव पाठो निर्दिष्ट इत्युच्यते तत्रापि समानः पन्थाः, तस्यापि घटमानकत्वस्य चिन्त्यत्वादागमेन सह विरोधाद् युक्त्यसंगतत्वाच्चेति, अष्टभी रथरेणुभिर्देवकुरूत्तरकुरुमनुष्याणां सम्बन्ध्येकं वालानं जायते, तैरप्यरष्टभिर्हरिवर्षरम्यकमानुषवालाग्रं भवति, एतैरष्टभिर्हेमवतैरण्यवत मनुष्यवालाग्रं सम्पद्यते, एतैस्त्वष्टाभिः पूर्वविदेहापरविदेहमनुजवालाग्रं भावनीयं, एतैः पुनरष्टाभिर्भरतैरवतनराणां वालाग्रं द्रष्टव्यम्, इह चैवं वालाग्राणां भेदे सत्यपि वालाग्रजातिसामान्यविवक्षया वालाग्रामिति सामान्येनैकमेव निर्दिष्टमिति, अष्टभिर्भरतैरवतमनुष्यवालाग्रैरेका प्रतीतस्वरूपैव लिक्षा जायते, ताभिरप्यष्टभि - रेका यूका सम्पद्यते, एताभिरप्यष्टभिर्यवशब्दसूचितं यवमध्यमेकं निष्पद्यत इति गाथार्थः ॥ ९८ ॥ ततः किमित्याह
अट्ठेव य जवमज्झाणि अंगुलं छच्च अंगुला पाओ । पाया य दो विहत्थी दो य विहत्थी भवे हत्थो ॥ ९९ ॥
अष्टौ च यवमध्यान्यंगुलं भवति, अनन्तरगाथोक्तस्वरूपेण यवमध्येनाष्टगुणेन प्रस्तुतमुत्सेधांगुलमभिजायत इत्यर्थः, एतानि च पडेगुलानि - अङ्गुलषट्कविस्तीर्णः पादस्य मध्यतलप्रदेशः पादैकदेशत्वात् पादो भवति, द्वौ च युग्मीकृतावेतौ पादौ द्वादशांगुलप्रमाणा वितस्तिर्भवति, द्वे च वितस्ती "अंगुल विहत्थी रयणी" त्यादि मूलगाथायां पर्यायशब्दत्वाद्रत्निशब्देनोक्तो हस्तो भवेद्, द्वौ
परमाणोयेवमध्यान्तंमानं.
॥ ९८ ॥