________________
॥
3
॥
निक्षेपाः
गा.३
गतीन्द्रियकायादिषु मार्गणा गत्यादिमार्गणास्ताभिश्व जीवसमासा अनुगन्तव्या इति गाथासमासार्थः ॥ ३ ॥ विस्तरार्थं विभणिषुः स्वयमेव सूत्रकारो निक्षेफ्स्वरूपं तावदाह
नामंठवणा दव्वे भावे य चउध्विहो य निक्खेवो। कत्थइ य पुण बहुविहो तयासयं पप्प कायवो ॥३॥
व्याख्या नामस्थापनाद्रव्यभावभेदात्सामान्येन चतुर्विधो निक्षेपो भवति, स च प्रस्तुते इत्य योज्यते—जीव इति नाममात्र नामजीवः, नाम चासो जीवश्चेतिकृत्वा, यस्य वाऽचेतनस्य (सचेतनस्य वा) वस्तुनो जीव इति नाम क्रियते स नामजीवः, नाम्ना-नाममा, ण जीवो नामजीय इति हेतोः, :चित्रकर्मलप्यकर्माक्षादिषु स्थाप्यमानः स्थापनाजीवः, यस्य तु जीवस्यैव स्तोऽपि ज्ञानादीन् लेष्ट्वादिव्यावृत्तिप्रभृतीश्च पर्यायानवगणाय्य केवलं तद्वियुक्त जीवमात्र विवक्ष्यते सः द्रव्यजीवो, गुणपर्यायवैकल्यविवक्षया द्रव्यमानत्वात् । अथवाऽनुपयुक्तो जीवो, द्रव्यजीवः, 'अनुपयोगो द्रव्य मिति वचनात्, यदिवौदारिकादिशरीरद्रव्येण सह जीवस्यान्योऽन्यानुगतत्वाद् द्रव्यस्य च प्रधानतया विवक्षितत्वाद् द्रव्यभूतो जीवो द्रव्यजीवः, यथा भोगी पुरुषोऽपि भोगपुरुष उच्यते एवमौदारिकशरीरादिद्रव्यवान् जीवोऽपि द्रव्यजीव इत्यर्थः,
प्रौदयिकादिभावयुक्तस्तु ज्ञानादिगुणसमन्वितो भावजीवः, इह च-" जत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि य न जाणिज्जा चउकयं निक्खिवे HASI. तत्य ॥ १॥". इति वचनाद्वस्तूनां :निक्षेपो बहुविधाऽपि संभवति, यथा-"नाम ठवणादबिए खित्ते काले भवे य भावे य। एसो खलु मोहिस्सा
निक्खेवो होइ सत्तविहो ॥ १॥" तथा "नाम ठवणा दविए खित्ते काले भवे य भावे य । पज्जवलोगे य तहा महविहो लोगनिक्लेवो ॥ १॥ नाम ठवणा दविए आहे भव तब्भवे य भोगे य। संजम जस कित्ती जीवियं च तं भरागाई दसहा ॥ २ ॥” इत्यादि। यत्र पुनः प्रज्ञावैकल्यादिकारणाहुविधो निक्षेपो न ज्ञायते तत्रापि नामस्थापनाद्रव्यभावलक्षणं चतुष्टयं निक्षिपेदेव, तस्य सर्वव्यापकत्वात्सुप्रतीतत्वाच, तदेवमत्रापि चतुष्टयनिक्षेपः प्रदर्शितोऽथ बहुविधनिपप्रदर्शनार्थमुत्तरार्द्धमाह- कत्था य पुणे' त्यादि, कापि पुनर्वस्तुनि बहुविधो यथासम्भवं पञ्चषट्सप्तादिविधोऽपि निक्षेपः कर्तव्यः, किं कृत्वा इत्याह
।