SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 900 जीवसमासानुगमद्वारावि गा. २ 'समासतः' सङ्क्षेपतः 'अनुक्रमियामि' भणियामीतिसम्बन्धः, जीवसमासाश्चेह चतुर्दश गुणस्थानकान्यबसेयानि, मिथ्यादृष्टिसास्वादनादिभेदतस्तैरपि समस्तजन्तुसङ यहाद्, - एतदेव सूचयतेदं विशेषणमकारि, कथम्भूतान् जिनवरान् ?-चतुर्दशगुणान् मिथ्यादर्शनादीन् जानन्तीति चतुर्दशगुणज्ञाबकास्तानिति, अन्यथा हि तीर्थकराः | समस्तमपि वस्तुनिवहं जानन्त्येव, किमनेन निर्यि चतुर्दशगुणज्ञायकत्वविशेषणेन ?, तस्मादिह प्रकरणे चतुर्दशगुणस्थानरूपा ये जीवसमासा मयाऽभिधास्यन्ते तान् । सम्यगशेषविशेषापेतांस्तीर्थकरा एव जानन्ति, अहं तु तदुक्तानुसारेण सङ्क्षेपतः किचित्तान् भणियामीत्येतदेव सूचयतेदं विशेषणमुपादायीति स्थितं, केवलं गुणस्थानकान्तर्गतानि तद्भणनाक्रमायातानि सूक्ष्मै केन्द्रियबादरैकेन्द्रियद्वीन्द्रियतीन्द्रियचतुरिन्द्रियासझिपन्चेन्द्रियसझिप चेन्द्रियरूपाण्यपि जीवसमासस्थानानि प्रत्येकं पर्याप्तापर्याप्तभेदभिन्नानि चतुर्दशेहाभिधास्यन्त इत्यवसेयमिति। तदत्र पूर्वार्द्धन विघ्नवातविघाताय तीर्थकरनमस्कारो वर्णितः, 'चउदसजीवसमासे' इत्यभिधेयपदं, तदनुक्रमणं तु प्रयोजनमित्यभिधेयप्रयोजने साक्षादुक्के, सम्बन्धस्तु प्रकरणप्रयोजनयोः साध्यसाधनलक्षणः सामर्थ्यादेव गम्यत इति साक्षान्नेोक्तः, तदुक्तम्-“शास्त्रं प्रयोजन चेति, सम्बन्धस्याश्रयावुभौ। तदुत्तपन्तर्गतस्तस्माद, भिन्नो नोक्तः प्रयोजनात् ॥ १॥" अनेन चाभिधेयादिदर्शनेन प्रेक्षावन्तः प्रवृत्तिता भवन्ति, यदाह-"उक्तार्थ | ज्ञातसम्बन्ध, श्रोतुं श्रोता प्रवत्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥१॥” इति गाथार्थः ॥ १॥ केन.पुनरुपायेनेते जीवस्मासा अनुक्रमणीयाः ? इत्याह निक्लेवनिरुत्तीहिं अट्ठहि याणुओगदा-हिं। गइयाइमग्गणाहि य जीवसमांसाऽणुगंतव्वा ॥२॥ व्याख्या-निक्षेपणं निक्षेपः-समयप्रसियो नामस्थापनेत्यादिनाव चानन्तरं वक्ष्यमाणस्वरूपः, निश्चितक्तिनिरुक्तिः, निश्चयेन वोच्यतेऽर्थोऽनयेति निरुक्तिः । जीवति जीविष्यति जीवितवानिति जीव इत्यादिः शब्दव्युत्पत्तिरित्यर्थः, एताभ्यां निक्षेपनिरुक्तिभ्यां 'जीवसमासाः' उक्तस्वरूपाः 'अनुगन्तव्याः' :व्याख्येया इति सम्बन्धः, तथाऽनुरूपं सूत्रस्यार्थेन योजनमनुयोगो-व्याख्यानं तस्य द्वाराणि-उपायभूतानि मुखान्यनुयोगद्वाराणि तानि च “किं कस्स केण कत्थ वे" त्यादिना वक्ष्यमाणानि षट्" संतपयपस्वणये " त्यादिना वक्ष्यमाद्यान्यष्टौ, तैः षड्भिरष्टभिश्चानुयोगद्वारींवसमासा व्याख्येयाः, मार्गणा-जीवादिवस्तूनां सदसत्त्वादिप्रकारेण नरकगत्यादिषु अन्वेषया । ॥२॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy