________________
कम
श्री मोध-स्थ ओ.नि. : अणुकंपायरियाई दोसा पइरिक्वजयणसंसटुं । નિર્યુક્તિ
पुरिसे काले खमणे पढमालिय तीसु ठाणेसु ॥२५१॥ ॥८१८
सत्यमाचार्यादयोऽनुकम्पिता भवन्ति, किन्तु एवं वृषभाः परित्यक्ता भवन्ति, आचार्योऽप्यनेनैव वाक्येन प्रत्युत्तरं स. ददाति काक्वा-'अणुकंपायरिआई 'त्ति एवमाचार्यादीनामनुकम्पा, तयाऽनुकम्पया त एव परलोके इहलोके चानुकम्पिता ण भवन्ति यत एव परलोके निर्जरा इहलोके च प्रशंसा, पुनरप्याह पर:-'दोसा' इति । भवतु नाम परलोका (आचार्या) स नुकम्पादि किन्तु क्षुत्पीडा च तदवस्थैव, आचार्योऽप्याह-क्रियत एव प्रथमालिका, किन्तु त्रिषु स्थानेषु, कानि च स न.-२५१ तानि?, अत आह 'पुरिसे' त्ति पुरुषः किं सहिष्णुरुत असहिष्णुः ?, पुरुषो यद्यसहिष्णुस्ततः करोति, कालेउष्णकालादौ, यधुष्णकालस्ततः करोति, 'खवणे'त्ति कदाचित्क्षपको भवति अक्षपको वा, यदि क्षपकस्ततः करोति, एवमेतेषु त्रिषु स्थानकेषु प्रथमालिकां करोति, क्व करोति ? कथं वा करोति ? अत आह - 'पतिरिक्वजयण'त्ति प्रतिरिक्ते-एकान्ते यतनया करोति, पुनरप्याह पर:-आचार्यादीनां तेन तद्भक्तं संसृष्टं कृतं भवति, आचार्योऽप्यनेनैव वाक्येनोत्तरं ददाति-पतिरिक्वजयणसंसटुं' १०२एकान्ते यतनयाऽसंसृष्टं च यथा भवति तथा प्रथमालियंति-मात्रके पृथगाकृष्य भुक्ते हस्तेन वा द्वितीयहस्ते कृत्वा, अकारप्रश्लेष आचार्यवाक्ये द्रष्टव्यः ।
॥८१८॥