SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्री मोध भजना कर्त्तव्या, न त्वेकैकस्मिन् भङ्गक इति । यदा तु सागारिकः स्थिरोऽव्याक्षिप्त उपयुक्तश्च साधुं प्रति भवति तदा । નિર્યુક્તિ 'इतरेणं ति इतरशब्देन रजोहरणनिषद्योच्यते तया पादौ प्रमाष्टि, न रजोहरणेन । 'विलंबणत्ति तां च निषद्यां हस्तेन " विलम्बमानां नयति, न तु शरीरे संस्पर्शनं करोति । कियती भुवं यावदित्याह-'आलोयं त्ति आलोकनमालोको 4 यावत्तदृष्टिप्रसर इत्यर्थः । अथवा 'इतरेणं'ति केनचिदौपग्रहिकेण कार्पासिकेन औणिकेन वा चीरेण, शेषं प्राग्वत्, म म पश्चात्तं गोपायति । अथवा 'इतरेण विलंबणालोयंति प्राक् तावदेकाकिनो विधिरुक्तः, यदा तु इतरेण-इतरशब्देन सार्थों में गृह्यते, तेनेतरेण सार्थेन सह प्रव्रजता स्थाण्डिल्याच्चास्थाण्डिल्यं संक्रामता किं कर्त्तव्यं सार्थपुरतः ? इत्याह - नि.-१४ 'विलम्बणे'ति विलम्बना कार्या, मन्दगतिना सता स्थण्डिलस्थेन तावत्प्रतिपालनीयं । कियन्तं कालं प्रतिपालनीयं ? यावदालोको-दर्शनं तस्य सार्थस्य, अदर्शनीभूते तु झाटान्तरिते सार्थे पादयोः प्रमार्जनं कृत्वा व्रजतीत्ययं विधिः । उक्तो गाथाऽक्षरार्थः, इदानीमष्टभङ्गिका प्ररूप्यते, सा चेयम् -चलो वक्खित्तो अणुवउत्तो य सागारिओ, एत्थ पमज्जणं, तस्यानुपयुक्तत्वादप्रमार्जनेऽसामाचारीप्रसङ्गात् ?, चलवक्खित्तु उवउत्तु एत्थ नत्थि पमज्जणं सागारियत्तणओ २, च० अव० अणु० एत्थवि पमज्जणं ३, चल अव० उव० एत्थवि णत्थि पमज्जणं ४, अच० व० अणु० एत्थ पमज्जणं ५, अच० व० उ० णत्थि पमज्जणं ६, अच० अव० अणु० अस्थि पमज्जणं ७, अच० अव० उ० एत्थ नत्थि पमज्जणं वा॥१७४॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy