________________
श्री सोध-त्य નિર્યુક્તિ
(१) प्रतिवेपन वार
|
|
.-४
वृत्ति : अधुनैकैकं द्वारं व्याचष्टे, तत्र पर्यायतः प्रतिलेखनाद्वारव्याख्यानायाह - ओ.नि. : आभोगमग्गण गवेसणा य ईहा अपोह पडिलेहा ।
पेक्खणनिरिक्खणावि अ आलोयणपलोयणेगट्ठा ॥४॥ व्याख्या-आभोगनमाभोगः, 'भुजपालनाभ्यवहारयोः' मर्यादयाऽभिविधिना वा भोगनं-पालनमाभोगः प्रतिलेखना भवति । मार्गणं मार्गणा 'मृग-अन्वेषणे' अशेषसत्त्वाऽपीडया यदन्वेषणं सा मार्गणेत्युच्यते । गवेषणं गवेषणा 'गवेष मार्गणे' अशेषदोषरहितवस्तुमार्गणं गवेषणेत्युच्यते । ईहनमीहा 'ईह-चेष्टायां' शुद्धवस्त्वन्वेषणारूपा चेष्टेहेत्युच्यते, साग च प्रतिलेखना भवति । अपोहनमपोहः-अपोहःपृथग्भाव उच्यते, तथा च चक्षुषा निरूप्य यदि तत्र सत्त्वसम्भवो भवति तत उद्धारं करोति सत्त्वानां अन्यालाभे सति, स चापोहः प्रतिलेखना भवति, प्रतिलेखनं प्रतिलेखना, प्रति प्रत्यागमानुसारेण निरूपणमित्यर्थः, सा च प्रतिलेखना । प्रेक्षणं प्रेक्षणा, प्रकर्षणेक्षणं दर्शनं प्रेक्षणेत्युच्यते, सा च प्रतिलेखना । निरीक्षणं निरीक्षणा, 'नि:-आधिक्ये 'ईक्ष-दर्शने' अधिकं दर्शनं निरीक्षणेत्युच्यते, अपिशब्दादन्योपसर्गयोगे चैकार्थिकसंभवो यथा-उपेक्षणेति, चशब्दादाभोगादीनां च शब्दानां ये पर्यायशब्दास्तेऽपि
||८
||