SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ हणभतले, फुडपहरणे, महारणसंखभेरि - दुंदुभि - वरतूरपउरपडुपहडाहयणिणायगंभीरनंदितं पक्खुभियविपुलघोसे, हयगयरह जोहतुरितपसरित - उद्धततमं धकारबहुले, कातरनरणयणहियय वालकरे ॥ Pages रडतरडकुंडलोडुदामाडोविया, पागडपडागड सियज्य - वेजयंति - चामरचलंतछन्तंमिलिमिलिमिलंत ति मिलनेन चिकचिकायमानैः क्षिप्यमाणैः, विद्युतः क्षणप्रभाया निर्मलाया प्रभा तत्समाना -सदृशी तया विरचितं नभस्तलं आकाशं यत्र तत् । स्फुटानि महराणानि यत्र तस्मिन् संग्रामे महारणस्य सम्बन्धीनि यानि शङ्खाश्च भेर्यश्व दुन्दुभ्यश्च भेरी - ताम्रमया दुन्दुभिश्वर्ममा वरं - प्रधानं यत् तूर्य-वादित्रं तेषां प्रचूराणां पटूनां स्पष्टध्वनीनां पटहानां आहतानांआस्फालितानां निनादेन - ध्वनिना गम्भीरेण-घनतया ये नन्दिता - हृष्टाः- हर्षवन्तो वीराः मक्षुभिताः - कम्पिताः कावरा तेषां विपुलो - विस्तीर्णो यो घोषो - नादो यत्र तत् तस्मिन् । हयास्तुरगाः, गजाः हस्तिनः, रयाश्चतुश्चक्राः, योधाः- सुभटास्तेभ्यः सकाशात्, त्वरितं शीघ्रं प्रसृतं - प्रसरमुपगतं यद्रजो - धूली तदेवोद्धततममुत्कटं यत् अन्धकारं तेन बहुलं यत्र तस्मिन्, कातरनराणां नयनयोः हृदयस्य वा व्याकुलत्वं करोतीति तस्मिन् । विलुलितानि शिथिलतया चञ्चलानि उत्कटानि प्रधानानि यानि मुकु मस्तकाभरणानि तिरीयानि च तान्येव शिखरत्रयोपेतानि कुण्डलानि - कर्णाभरणानि उडदामानि - नक्षत्राभिधानाभरणानि तेषां उद्दामा उकटा या आटोपिका स्फारता यत्र । तथा प्रकटा या पताका महत्तरा उच्छ्रिता - उर्ध्वोकृता या, ध्वजा-लघुपताकाः, वैजयन्त्यो- विजयसूचिकाः पताकास्तथा चामराणि बालव्यजनानि चलन्ति यानि छत्राणि - आतपत्राणि तेषां सम्बन्धि यदन्धकारं तेन गम्भीरोऽलब्धमभ्यस्तस्मिन् । पुनः कीदृशः ? हयानां यत् हेषितं शब्दो हस्तिनां च यद् गुलुगुलायितं शब्दविशेषः, स्थानां घण
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy