SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अवरे रणसीसलद्धलक्खा संगामंमि अतिवयंति, सनद्धबद्वपरियरउप्पीलिय-चिंधपगहियाउहपहरणा, मा. लाढिवरवम्मगुंडिया, आविद्धजालिका, कवयकंकडइया । उरसिरमुहबद्ध-कंठतोणमाइतवरफलह-रचितपहकरसरहसखरचावकरकरंछिय-सुनिसितसरवरिस-वडकरकमुयंत-घणचंडवेगधारानिवायमग्गे, अणेगधणुमंडल अपरेराजानः रणशीर्ष-सङ्ग्रामशिरसि लब्धलक्षा लब्धनयवादाः सङ्ग्राममिति द्वितीया सप्तम्यर्थे, एतावता स्वयमेव सङ्ग्रामे अभिप्रवेशन्ति केवलं सैन्यमेव न योधयन्ति किन्तु स्वयमेव प्रविशन्ति, कीदृशाः सन्तः ? सम्बद्धाः-सज्जीभूताः बद्धाः-शरीरेण सह परिकवचाः सन्नाहा यैस्ते तथाभूतास्सन्तः उत्पीडितो-गाढं बद्धचिन्हपट्टो यैस्ते तथाभूताः, पुनर्ग्रहीतानि आयुधानि-शस्त्राणि खेटकादीनि परेषां हननार्थ आत्मरक्षार्थ च योनि आयुधानि प्रहरणान्युच्यन्ते यैस्ते, माढी-तनुत्राणविशेषः तेन वरवर्मणा प्रधानसबाहेन गुंडिताः-परिवारिताः, पागन्तरे मेढिगुडवम्म इति तत्र गुड-कुंजरसन्नाह इति ज्ञेयं । पुनः कीदृशाः ? आविद्धानि-परिहितानि जालिकानि लोहकटका यैस्ते, कवचस्य तनुत्राणस्य कंकटिका-लोहकीलकाः कण्टकिताः-कृतकवचा ये ते। उरसा हृदयेन शिरसा मुखेन बद्धाः-यन्त्रिताः कंठे तोणा-तूणीराः यैस्ते, तथा हस्ते पाशितानि गृहीतानि वरफलकानि खेटकानि | यैस्ते, तेषां रचितो-रणोचितरचनाविशेषेण परमयुक्तपहरणप्रतिघातनाय कृतः पहकरत्ति समुदायो यैस्ते, ततो सरभसैः-सहर्षेः निष्ठुरः खरः कोदण्डहस्तैः-धानुष्करित्यर्थः तेषां ये कराः हस्तास्तेषु स्थिताः सुष्टु निशितास्तीक्ष्णाः ये शराः बाणास्तेषां यो वर्षवर्षणं धाराघरपातव, वृद्धो महान् यः करको-वृष्टिविस्तारो, मुच्यमानस्तादृशो यो घनो-मेघः तस्य चण्डवेगानां धाराणां १ चड मु० प्र. २ माथा इति लोकभाषा. ३ करहा इति भाषा...
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy