SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ जंबू ! तइयं च अदत्तादाणं हरदहमरणभयकलुसतासण-परसंतिगऽभेजलोभमूलं, कालविसमसंसियं, अहोऽच्छिन्नतण्हपत्थाणपत्थोइमइयं, अकित्तिकरणं, अणजं, छिद्दमंतर-विधुर-वसण-मग्गण-उस्सव-मत्तप्पमत्त-पसुत्तवंचण-क्खिवण-घायणपरा-णिहुयपरिणाम-तकरजणबहुमयं, अकलुणरायपुरिसरक्खियं, सया हे जम्बू ! तृतीयं अदत्तस्य धनादेः आदान-ग्रहणं अदत्तादानं तृतीयं आश्रयं । हर दह इत्येतौ शब्दौ हरणदहनपर्यायौं, कीदृशं तत् अदत्तादानं ? मरणं-मृत्युः भयं-भीतिः कलुषं पातकं तेन त्रासन-त्रसनजननस्वरूपं, पुनः कीदृशं? परसत्कं परकीय * यत् धनं तत्र योऽभिध्या-लोभः रौद्रध्यानाऽन्विता मूर्छा स एव मूल-निबन्धनं-कारणं यत्र तत् । पुनः कीदृशं ? कालश्चा रात्रादि विषमं च-पर्वतादि दुर्ग तैः संश्रितं-आश्रितं यत्तत्तथा, ते हि प्रायः अदत्तादानग्राहकैः आश्रीयते, पुनः कीदृशं ? अधोअधोगतिः केषां ? अछिन्नतृष्णानां-अत्रुटितवाञ्छानां यत्पस्थान-यात्रा तत्र प्रस्ताविका-प्रवर्तिका मतिः-बुद्धिर्यष्मिस्तत् । पुनः कीदृशं ? अकीर्तिकरणं-अपयशःकारी, अतएव अनार्य-आयपुरुषैरनाचरणीयं । पुनः कीदृशं ? छिद्रं-प्रवेशद्वारं नरकस्येति गम्यं, अन्तरं-अवसरोऽनर्थस्येति ज्ञेयं, विधुरं-अपायो, व्यसनं-राजादिकृताऽऽपत् एतेषां मार्गणं-गवेषणं तस्य उत्सवः महोदिनं, तेषु मत्तः-क्षिवो मद्यादिना, प्रमत्तः इन्द्रियादिभिः प्रमुप्तो निद्राशीलः तेषां वञ्चनं-प्रतारणं । पुनः कीदृशं ? आक्षेपणं चित्तव्यग्रतापादनं | घातनं-मारणं तेषां तत्परः-एतनिष्टः अनिभृतोऽनिश्चलो योऽसौ परिणामश्चित्तव्यापारो यस्याऽसौ मत्तप्रमत्तप्रसुप्तवचनाक्षेपणघातनपराऽनिभृतपरिणामः तादृशो यस्तस्करजनश्चौरलोकः तस्य बहुमतं मान्यं अदत्तादानं । पाठान्तरे त्विदमेवं पव्यतेछिद्रविषमपापकं च-[नित्यं छिद्रविषमयोः सम्बन्धोदं पापमित्यर्थः, अन्यदा हि तत्पापं प्रकर्तुमशक्यमिति भावः]-अनिभृतपरि
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy