SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ उवणिज्जंतु यहुं च पविसंतु य कोट्ठागारं, अप्पमहउकोसगा य हंमंतु, पोयसत्था सेणा णिज्जाउ, जाउ डमरं, घोरा वरंतु य संगामा, पवहंतु य सगडवाहणाई, उवणयणं चोलगं विवाहो जन्नो अमुगम्मि उ होउ दिवसेस करणे महत्तेसु नक्खत्तेसु तिहिसु य, अज्ज होउ ण्हवणं मुदितं बहुखज्जपिज्जकलियं कोतुकं विण्हावणकं संतिषष्टिक्यादि भेदाः, वास्सतुषगोधूमाः बहुविधास्तान् लूयन्तां छिद्यन्तां, केदारेषु मल्यन्तां संन्यस्यतां स्थाप्यतामितस्ततो वा, उत्पूयतां - उत्पादयतां वपनादिना, लघून् वृद्धान् कुर्वतां प्रविशतां प्राविश्यतां कोष्ठागारेषु कोष्ठागारं प्रति वा, अल्पा -लघवो महान्तस्तदपेक्षया मध्यमाः, उत्कृष्टाः - उत्तमाथ हन्यन्त्रां पोतसार्थाः - बोहित्य - बाणसमुदायाः । तथा सेना - सैन्यं कटकं निर्यातु - निर्गच्छतु निर्गत्य किं करोतु ? डमरं विग्रहं विड्वरस्थानं तथा घोरा - रौद्राः जनक्षयकराः वर्त्तन्तां सङ्ग्रामा - युद्धानि । प्रवर्द्धयन्तु - प्रमर्दयन्तु शकटवाहनानि - यानपात्राणि च तथा पुनः उपनयनं बाळानां कलाग्रहणं, 'चोलगं 'ति बालकप्रथमशिरोमुण्डनं, विवाह - पाणिग्रहणं, यज्ञो-यागः अमुष्मिन् दिवसे भवतु ।' [ बव १ बालव २ कौलव ३ तैतिल ४ गर ५ वणिज ६ विष्टि ७ सप्तचराणि शकुनि १ चतुष्पद २ नाग ३ किंम्रघ्नानि ४ चत्वारि स्थिराणि एवं ११ ] करणं - बवादिकानामेकादशानामन्यतरदभिमतं मुहूर्ते रौद्रादीनां त्रिशतामन्यतरेऽभिमते, नक्षत्रे - पुष्यादिकेऽभिमते, तिथौ पञ्चानां नन्दादीनामन्यतरस्यामभिमतायां, अथ अस्मिन्नहनि भवतु स्नपनं - सौभाग्यपुत्राद्यर्थं वध्वादेर्मज्जनं, किंभूतं ? मुदितंप्रमोदवत्, बहु-प्रचुरं खायं पेयं वा तेन कलितं व्याप्तं प्रभूतमद्यमांसाद्युपेतं वा, कौतुकं रक्षापोटलिका द्वरका दिबन्धनं यत्र तत्, विविधैः मन्त्रमूलिभिः संस्कृतजलैः विस्नापनकं शांतिकर्म वा - अग्निकारिकादिकं वा यत्र तत् । ते कुरुत-निष्पादयत केषु इत्याह--- १ प्रत्यन्तरे नास्ति.
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy