________________
अधर्मद्वारे
रण ज्ञान
मृषा वादिनः
सू-७
प्रश्नव्याक-5 तथा—जनं सांख्य जैमिनाय, योगं वैशेषिकं तथा । सौगतं दर्शनान्येव, नास्तिकं न तु दर्शनम् ॥१॥ इत्यपि पाठः वि० वृत्तिः ___ तथा केचित् यदृच्छावादिनो यथा-सर्व इश्वरेच्छया-यदृच्छया निष्पयते न कोऽपि कर्ता, तदप्यसत्, निरालम्बनीभूता
यदृच्छा गगनारविन्दवत् अकर्तृत्वे नोल्पादात् इत्याद्यभ्यूयं बृहत्तितः विस्तारार्थिनेति ॥
'सम्भूतो-जातो अण्डकाव-जन्तुयोनिविशेषात् लोकः-सितिनलाऽनलाऽनिलवनस्पतिनारकनरनाकितिर्यगरूपः, एके केचित् है वदन्ति स्वयंभुवा-ब्रह्मणा स्वयं-आत्मना निर्मितो-निष्पादितो लोकः एवं अलीकं भ्रान्तिज्ञानिभिः प्ररूपितत्वात् । तथा प्रजापतिना-लोकप्रभुणा तथा इश्वरेण च-महेश्वरेण च कृतं-विहितं इति केचित् वादिनः । एवं विष्णुना-कृष्णेन कृतं कृत्सनंसकलमेव जगत् 'जले विष्णु स्थले विष्णुरिति वचनात् । एके केचित् कुदर्शनिनो एवं मृषा वदन्ति-एक एव आत्मासर्वजगदव्यापकः,अकारक:-कर्मणां अकर्ता, अवेदक:-अभोक्ता सुकृतस्य-शुभफलस्य दुःकृतस्य-पापफलस्य च, करणानि-इन्द्रियाणि, कारणानि-हेतवो मिथ्यात्वाविरतिकषाययोगपमादाः सर्वथा-सर्वप्रकारैः सर्वपदेशे काले च न वस्त्वन्तरं कारणमित्यर्थः, | करणानि-इन्द्रियाणि एकादश तत्र-वाक्पाणिपादपायूपस्थलक्षणानि पश्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पश्च बुद्धीन्द्रियाणि एवं १०
१ 'संभूतो अंडकाओ लोगो......निक्किओ निगुणोअ ' यावत् मूलपाठो विस्तृतविवरणे प्राय् न्यस्तोऽतोऽधुना शब्दार्थ मात्रविवरणेऽस्मिन् स्थले न न्यस्तः
२ जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्व विष्णुमयं जगत् ॥ १॥
॥३१॥