________________
दीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशो ऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतम् ॥१॥ सा सा संपद्यते बुद्धि-र्व्यवसायश्च तादृशः । सहायास्तादृशा ज्ञेया, यादृशी भवितव्यता ॥ ३ ॥ इतिवचनात् । तदप्यलीकं, अचेतनस्य कर्त्तृत्वानुपलम्भात् नियतेरनाश्रितत्वानुपलम्भात् ॥
केचित् कर्मवैचित्र्यं जगद्बुवन्ति तथा
ब्रह्मा येन कुलालवन्नियमितो, ब्रह्माण्डभाण्डोदरे । विष्णुर्येन दशावतारगहने, क्षिप्तो महासङ्कटे ॥ रुद्रो येन कपोलपाणिपुटके भिक्षाटनं कारितो । सूर्यो भ्राम्यति नित्यमेव गगने, तस्मै नमः कर्मणे ॥ १ ॥ इति वचनात् ॥
तदप्यसत् यतः - कर्माण्यपि कृतानि भवन्ति तत्कर्त्ता कश्चिद्विलोक्यते तस्मात्तेषां जगत्कर्त्तृत्वे न प्राधान्यं ।
तथा केचिदुद्यमवादिनो यथा " दुस्साध्यमप्युद्यमतस्सुसाध्यं भवेदनालस्यवशादभीष्टं " इति वचनात् तद् असद्भूतता चाऽत्र प्रत्येकमेषामेकत्वे जिनमतमतिक्रुष्टत्वात्तथाहि,
कलो सहाव नियई, पुत्र्वक्रयं पुरिसकारणे गंता । मिच्छत्तं ते चेव उ-समासओ होंति सम्मत्तमिति ॥ १ ॥ समुदायेनैव सिद्धिः सर्वभावानामिति सद्वचस्ततो ह्येकदेशेन तथा चैकन मिलितं वाक्यमलीकमिति ज्ञेयं । जगदकर्तृत्वा कर्त्तृत्वा विचारावलोकिभिस्तत्वालोकनिर्णयादयो ग्रन्था विलोकनीयाः संक्षेपस्तु एतत् लिखितम् ।
साम्प्रतं प्रस्तुतं व्याख्यामः अधिकारवशादिदं ज्ञेयं
बौद्धं १ नैयायिकं २ सांख्यं ३, योगं ४ वैशेषिकं ५ तथा । नास्तिकं ६ चेति षड्भेदं दर्शनानि भवन्ति हि |१|
६