SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अधर्मद्वारे मृषा वादिनः प्रश्नव्याक- इति तदपि असत्, सर्वथा निर्गुणत्वं चैतन्यं पुरुषस्य स्वरूपमित्यभ्युपगमात् । केचन अबन्धन इति वदन्ति यदुक्तंरण ज्ञान यस्मान्न बध्यते नाऽपि मुच्यते नाऽपि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥१॥ वि० वृत्तिः ॥३०॥ इति वचनात्; असचैतत् मुक्तामुक्तयोरेवमविशेषप्रसंगात् । तथा केचित् जगदिदं मन्यते 3 कालः सृजति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागति, कालो हि दुरतिक्रमः ॥१॥ कालेन कवलिताः सर्वे, भावाश्चाऽनित्यतांगता । इति वचनात, तदपि असत्, क्षणमात्रत्वात् तस्याकर्तृत्वोपादानात् । केचित् स्वभावभावितं जगत् मन्यन्ते, स्वभावेनैव सर्वः संपद्यते शुण्ठिहरीतक्यादीनां तिक्तविरोकादयो गुणा स्वभावेनैव. रविरुष्णः शशी शीतः, स्थिरोऽद्रिः पवनश्चलः । न श्मश्रुः स्त्रीमुखे हस्ततलेषु न कचोद्गमः ॥१॥ भव्याऽभव्यादयो भावाः स्वभावेनैव जृम्भते । इति वचनात् , तदप्यसत्, तदपि निसर्गतो यत्नाच्च स्वभाववैयर्थ्यदर्शनात् । केचिनियतिभावितं जगदिति जल्पन्ति भवितव्यतैव सर्वत्र बलीयसीति यथाप्राप्तव्यमर्थ लभते मनुष्यः किं कारण ? दैवमलकनीयं । तस्मान्न शोचामि न विस्मयामि यदस्मदीयं नहि तत्परेषाम् ॥१॥ ॥३०
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy