SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ एवमेके वदति मोसं एगो आया अकारको अवेदको य सुकयस्स य करणाणि कारणाणि सव्वहा सव्वहिं च निच्चो य निकिओ निग्गुणो य पुनः सृष्टिकाले विष्णुना सर्व सृष्टमिति प्रवादिनां कुदर्शिता ज्ञेया. तथा एके केचनात्माद्वैतवादिनो भणन्त्यलीकं यथा-एक एव आत्मा सर्वव्यापकस्तदुक्तंएक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥ __ तथा पुरुषएवेदं निं सर्व यद्भूतं यद्भाव्यमित्यादि कुदर्शनता चाऽस्य सकललोकविलोक्यमानभेदनिवन्धनव्यवहारोच्छेद प्रसंगात् । तथा अन्ये वदन्ति सुक्खदुक्खहेतुनां अकारकः, पुण्यपापकर्मणामकर्ता अलीकमिति कुदर्शनता च संसार्यवस्थायां तदभावादिति । केचिन्नित्यवादिनो जल्पन्ति आत्मा नित्यः यथानैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥१॥ अछेद्योऽयमभेद्योऽयममूर्तोऽयं सनातन । इति एतदपि असत् , एकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षाधभावप्रसंगात्, तथा निष्क्रियः सर्वव्यापित्वेनाऽवकाशाऽभावात् गमनाऽगमनादिक्रियावर्जितः एके केचित् इति वदन्ति तदपि असत्, देहमानोपलभ्यमानत्वात् । केचित् निर्गुणो बदन्ति सत्वरजस्तमोलक्षणगुणव्यतिरिक्तत्वात् प्रकृतेरेव होते गुणा यदुक्तं__ अका निर्गुणो भोक्ता, आत्मा कापिलदर्शने ।
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy