SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ इमंपि बितीयं कुदसणं असम्भाववाइणो पण्णवेंति मूढा-संभूतो अंडकाओ लोगो सयंभुणा सयं &च निम्मिओ, नास्तिकवादिनः-नास्ति नास्ति इति वदन्ति ते नास्तिकवादिनः, वामलोकवादिनः शून्यमतवादिनः इमं द्वितीयं कुदर्शनं नास्तिकमतापेक्षया, कुदर्शनं-कुमतसद्भाववादिनः इदं प्रज्ञापयन्ति मूढाः-व्यामोहवन्तः; स्वयं परानपि प्रज्ञापयन्ति यथा केचिन्मूढा असद्भावनोद्भावनां जल्पन्ति यथा-स्वयंभुवा ब्रह्मणा वा आत्मना वा निर्मितो लोकः, तत्राण्डकास्तभुवनवादिनां मतमेवं-'यथा पूर्व जगत् पंचमहाभूतवर्जितं गम्भीरं एकार्णवं जलेन प्लाव्यमानमासीत्-तत्र महत् अण्डं घोलन्तमाणं चिरकालेन स्फोटमानं द्विधा जातं अभ्रं भूमिश्च तत्र सुरासुर-नारकसमुनुजसचतुष्पदं जगत्सर्व उत्पन्नं, इत्यण्डकनिर्मितो जगत्-लोकः । अथ स्वयंभूनिर्मितजगद्वादिनां मतमित्थं आसीदिदं तमोभूतमप्रज्ञातमलक्षणं । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टे राक्षसोरगे ॥२॥ केवलं गहरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥३॥ तत्र तस्य शयानस्य, नाभेः पद्म विनिर्गतं । तरुणार्कबिम्बनिभं, हृद्यं काञ्चनकर्णिकम् ॥ ४ ॥ तस्मिन् पद्मे भगवान् , दण्डयज्ञोपवीतसयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥५॥ अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणां । विनता विहंगमानां, माता विश्वप्रकारामाम् ॥६॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy