________________
भणंति [सुणति] नत्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुनपावं, नत्थि फलं सुकयदुक्कयाणं, पंचमहाभूतियं सरीरंभासंति हे! वातजोगजुत्तं, ते के भवन्ति इत्याह ?
अलीकाद् ये अविरताः तथा पूर्वोक्तेभ्यः अन्ये-अपरेऽपि भवन्ति ते के इत्याह ? नास्तिकवादिनः-लोकायतिकमतवादिनः ४ सम्पति द्रष्ट एव लोकः, नास्ति किश्चिदन्यत् । वामं सतामपि लोकवस्तूनां असत्त्वमतिपादनं वदन्ति ते वामलोकवादिनः, केऽपि
भणन्ति-प्ररूपयन्ति शून्यं इति जगत् शून्यवादिनः, कथं आकारायभावे [आत्माद्यभावात् एव जगत् अतएव नास्ति जीवः तत्साधकप्रमाणाभावात्, तत्कथं ? नास्ति आत्मा प्रत्यक्षग्राहाः, कथं? इन्द्रियविषयग्रहणगोचराभावान्नाऽपि अनुमानग्राह्यः कथं ? प्रत्यक्षेण तदुद्देश्यमन्तरा अनुमानस्याऽप्रवृत्तिः यथा द्रष्टे धूमे अनिरनुमीयते, नाऽपि आगमतो परस्परविरुद्धत्वेन अप्रमाणत्वात्, नाऽपि | उपमानं असत्ये कस्य उपमीयते, तस्मात् न याति-न गच्छति इह मनुष्यलोके परे वाऽपरस्मिन् लोके देवादिलोके न किञ्चिदपि स्पृशति तस्य पुण्यपापं-शुभाशुभं कर्म, नास्ति फलं सुकृतदुष्कृतानां पुण्यपापकर्मणां जीवाऽसत्त्वेन तयोरसत्त्वादतएव सर्वशून्यमीति ॥
यथा केचित् पञ्च महाभौतिक शरीर भाषन्ते पृथिव्यप्तेजोवायुआकाशमयं तत्र पञ्चमहाभौतिकमिति-महान्ति च तानि लोके व्यापकत्वात् सद्भूतानि-पृथिवी-कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणं तन्मयमेव शरीरं नाऽपरः । शरीरवर्ती तनिष्पादकोऽस्ति जीव इति विवक्षा, भूतान्येव सन्ति, यत्तु चैतन्यं भूतेषु उपलभ्यते तद्भूतेषु कायाकारपरिणतेषु लक्ष्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, पृथक् चैतन्यं दृश्यमाणं नास्ति, यथा घटाकारपरिणत