SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक रण ज्ञान वि० वृत्तिः ॥ २४ ॥ ॥ अथ द्वितीयं अध्ययनम् ॥ व्याख्यातं प्रथमध्ययनं । साम्प्रतं द्वितीयमारभ्यते अस्य चाऽयं सम्बन्धः - पूर्वस्वरूपादिविशेषणैः प्राणातिपातः उक्तः, स तु मृषाभाषणहेतुकः क्रोधलोभभयहासाद्भवति क्रोधादयस्तु प्राणिवधकारकास्ते तु मृषावादेनैव साध्या, अनेन सम्बन्धेनाऽऽयातस्येदमाऽऽदिसूत्रम् — इह खलु जंबू बितियं च अलियत्रयणं लहुसग - लहुचवलभणियं, भयकरं, दुहकरं, अयसकरं, वेरकारगं, रति - अरति - राग-दोसमणसंकिलेस - वियरणं अलियं नियडिसातिजोयबहुलं, नीयजणनिसेवियं, निस्संसं, अप्पश्ञ्चयकारकं, परमसाहुगरह णिज्वं, परपीलाकारगं परमकिण्हलेस्ससहियं, दुग्गइविणिवायविवडूणं, भवपुणभवकरं, चिरपरिचियमणुगतं, दुरन्तं, कित्तियं, थितियं अधम्मदारं । (सू० ५ ) इह शास्त्रे, खलु निश्वयार्थ, जम्बू इति शिष्याऽऽमन्त्रणं, द्वितीयं पुनः आश्रवद्वारं, अलीकवचनं मृषावाद इति नाम इदमपि यादृशादि पञ्चभिः द्वारैः प्ररूप्यन्ते — लघुर्गुणगौरवरहितः स्वक- आत्मा येषां ते लघुस्वकाः तेभ्यो ये लघवः चपला कायादिभिः तैर्भणितं किदृशं ? भयकरं, दुक्खकरं, अयशःकरं, वैरकारकम्, रतिअरतिरागद्वेषमनः संक्लेशं ते वितरति ददातीति रति- अरति - राग-द्वेष- मनः संक्लेश अधर्मद्वारे मृषावादस्य स्वरूपम् सू-५ ॥ २४ ॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy