________________
कर्मप्रगाढं दुर्मोचं यत्र स तथा, दारुणो रौद्रः कर्कशः-- कठिनः असातवेदनीयरूपः, वर्षसहस्त्रैः कृत्वा मुच्यते प्राणी इति शेषः । न च तं विपाकं अवेदयित्वा अननुभूय अस्ति मोक्षः, अस्मात् प्राणिवधकर्मणः इदं आश्रवद्वारं केन प्रतिपादितं तदाऽऽह
एवमुक्तरीत्या आख्यातवान् कथितवान् ज्ञातकुलनन्दनः क्षत्रियप्रधानश्रीसिद्धार्थपुत्रः महात्मा परमात्मरूपः रागादिजैत्रः श्रीवीरवर्द्धमानः वरनामधेयः प्रशस्तनामा कथितवान् । प्राणिवधफलविपाकं अत्राऽध्ययनार्थस्य महावीराभिहितत्वं दर्शितं पुनः कथितवान् इति यदुक्तं तत्प्राणिवधस्य महाविपाकदर्शनार्थ एषः सः प्राणिवधः चण्डः कोपनस्तन्तर्वर्त्ती रौद्रो दारुणविपाकहेतुः, नीचजनाचरितत्वात् क्षुद्रः, अनार्यलोकस्याऽयं करणीय इति अनार्यः, अविद्यमानयात्वात् निर्घृणः, निःशुकजनाऽऽचरितत्वात् निःशुकः, महाभयहेतुत्वात् महाभयः, भयवन्नरासेवितत्वात् वीहनकः उत्त्रासनहेतुत्वात् त्रासनकः, अकस्माद्भयहेतुः, न्यायातिक्रान्तत्वात् अन्यायः, अथवा गत-ऋजुभावत्वात् अनर्जुकः, उद्वेजनकारित्वात् उद्वेजनकः, परमाणान् न अपेक्षते इति निरपेक्षः, धर्मात् अपगत इति निर्धर्मः वध्यं प्रति स्नेहाभावात् निः पिपासकः, निर्गता करुणा यस्मात् सः निःकरुणः, नरकावासेषु यद्गमनं गतिस्तद्रूपं निधनं मरणं यस्य सः, मोहोऽज्ञानं महामोहो मिथ्यादर्शनं तदेवभयं तस्य प्रकर्षकः उत्कृष्टफलद इत्यर्थः, मरणेन वैमनस्यं - दैन्यं यस्य सः मरणवैमनस्यः ॥ प्रथमं आद्यं अधर्मद्वारं मृषावादाद्यपेक्षया परं इदमनादिरूपं चेत्यर्थः, आश्रवद्वारं पापागमनद्वारं व्यक्तव्यताऽपेक्षया समाप्तं निष्ठागतं, इतिशब्दः समाप्तौ ब्रवीमीति--कथयामि तीर्थकरोपदेशेन न तु स्वबुद्धया, इति इत्थं ॥ सुधर्म्मस्वामिना स्ववचसि सर्वज्ञवचनात् अव्यभिचारीति दर्शितं प्रत्ययो - स्पादनार्थ गुरुपारतन्त्र्याऽऽविष्करणार्थं विनेयानां च एतन्नाम्नाय प्रदर्शनार्थं चेति व्याख्यातं ॥ इति ॥ दशमोपाङ्गस्य प्रश्नव्याकरणनामरूपस्य प्रथमाश्रवस्य विवरणमेतल्लिखितं समासेन इति प्रथमं द्वारम् ।