________________
शङ्कुः, म्रुण्डका बस्त्रपटकुटी, सभाजनआस्थानिका, पपा जलदानस्थानं, आवसथः तापसाश्रमः, गन्धाः चूर्णविशेषाः, माल्यं कुसुमं, अनुलेपनं विलेपनं, अम्बराणि वस्त्राणि, ग्रुपो युगं ['जूंसर' इति भाषा, ] लांगलं हलं, 'मेतिकं येन क्षेत्रं मृद्यते ['समार' भाषा,] कुलिकं हलभेदाः [बवटा त्रेवटा भाषा, ] स्यन्दनो रथः स द्विविधः सांग्रामिको देवयांत्रिकश्च सङ्ग्रामिकस्य कटिप्रमाणं वेदिका भवति, शिविका पुरुषसहस्रवाहिनी यत्कूटाकार शिखराच्छादितो जम्पानविशेषरथः प्रतीतः, वृषभाव यानयुग्यः, शंकटं मंत्री, ['गाडलो' भाषायां] यानं तद्विशेषः बहिल भाषायोग्यं गोल्लदेशप्रसिद्धो द्विहस्तप्रमाणवेदिकोपशोभितो जम्पानविशेषः, अट्टालकः प्राकारोपवर्ति आश्रय विशेषः, चरिका नगरप्राकारंतराले अष्टहस्तमानो मार्गः, द्वारं प्रतीतं, परिघाऽर्गलाफ लिकं, खातिकाच्छादनयन्त्राणि अरघट्टादीनि, शैलिका वध्यतकाष्ठं अथवा शुल्कस्तीक्ष्णभेदनकाष्ठं ['खनेतु' भाषा, ] लकुटः सामान्यत्वेन काष्ठानि, 'मुसंदि:' महरणविशेषः, शतघ्नी महती यष्टिः ['नालिजंबूरा' इति भाषा, ] बहूनि प्रहरणानि करवालादीनि, आवरणं स्फुरकं [ छरपलो इति भाषा,] उपस्करं गृहोपकरणं मञ्चकपल्यंकादीनि एतेषां कृते अर्थाय अन्यैश्च एवमादिभिः बहुभिः कारणशतैः हिंसन्ति - विनाशयन्ति तरुगणान् क्रूरकर्माणः पुरुषा इति योगः तथा भणितान् कथितान्, अभणितान् अकथितान् एवं प्रकारान् ॥
सत्ते सत्तपरिवज्जिया उवहणन्ति दृढमूढा दारुणमती कोहा माणा माया लोभा हासा रती अरती सोय वेदत्थ जीयधम्मत्थकामहेउ सबसा अवसा अडा अणट्ठा एय तसपाणे धावरे य हिंसति ॥ १४ ॥
सत्वान् प्राणिनः कीदृशान् सत्वाम् ? सत्वपरिवर्जकान् कातरानुपन्नन्ति - विनाशयन्ति, ते के दृढमूढा अत्यन्तनिर्विवे hara d दारुणमतयो श्रीमाशयाः नन्ति, कस्माद्धेतोः ? क्रोधमत्सरेयवशतः मानात् स्वोद्धत्वात्, मायातः शाठ्यात्, लोभात् ते