SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ | प्रासादो राजभवनादीनि विकल्पास्तद्भेदाः चतुःशाला, भवनानि इष्टिकादिमयानि, गृहाणि तृणमयानि, शरणानि सामान्यगृहाणि, लयनानि-पर्वतनिःकुट्टितगृहाणि, आपणाः हट्टाः, चैत्यानि यक्षादीनां प्रतिमास्थानानि, देवकुलानि-सशिखरदेवपासादाः, चित्तसभा-चित्रवन्मण्डपः, प्रपा-जलदानस्थानं, आयतनं देवायतनं, आवसथः-तापसाश्रमः, भूमिगृहं मसिद्धं, मण्डपा:-छायाद्यर्थ पटमण्डपाः इत्याद्यनेकआश्रयविशेषाः एतेषां कृते--निमित्तं हिंसन्तीत्यर्थः । भाजनानि पात्राणि सौवर्णादीनि भाण्डानि, मृन्मयानि क्रयाणकानि, लवणादीनि वा उपकरणानि उदूखलादीनि अधिकरणानि तेषां विविधस्य वा अर्थाय हेतवे पृथिवीकायिकान् , हिंसति । मन्दबुद्धिकाः मिथ्यात्वोदयेन हीनसत्त्वाः॥ जलं च मजणय-पाण-भोयण-वत्थधोवण-सोयमादिएहिं ॥१०॥ जलं च अकायिकान् हिंसन्ति मज्जन-स्नानं पानं-भोजन-वधापन-शौचनं-आचमनं एवमादिभिः कारणैः कायिकान् विनाशयन्ति ॥ पयण-पयावण-जलावण-विदंसणेहिं अगणिं ॥ ११ ॥ पचनं स्वयं, पाचनं अन्यैः ओदनं वा, ज्वलापनं अनेरुद्दीपनं, विदर्शनं अन्धकारस्थवस्तुप्रकाशनं एभिः कारणः अग्निट्र कायान् विनाशयन्ति । सुप्प-वियण-तालयंट-परिथुनक-हुणमुह-करयलसग्गपत्त-वत्थएवमादिएहिं अणिलं ॥१२॥ तथा सूर्पकं प्रतीतं, व्यञ्जनं वायूदीरकं, तालवन्तं तदेव परं द्विपुटादिवस्त्रं, पृथुनकं मयूराङ्ग ["पंखो' इति भाषा,] तथा
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy