________________
प्रश्नव्याकरण ज्ञान वि० वृत्तिः ॥ १० ॥
या बोन्दी शरीरं तस्यैव रूपं स्वभावो येषां ते तान्, अचक्षुर्गाह्यान् आगमप्रमाणगम्यान, चाक्षुषान् चक्षुर्गाह्यान् वा, त्रसनामकर्मोदयवर्त्तिजीवरा शिस्तत्रभवान् असङ्ख्यान् सङ्ख्यातीतान्, तिष्ठन्तीति स्थावराः स्थावरनाम कर्मोदयवर्त्तिनः कायः समुदायो राशिरिति पर्यायाः ॥ सूक्ष्मनामकर्मोदयवर्तिनः, बादरनामकर्मोदयवर्त्तिनः, प्रत्येकनामकर्मोदयवर्तिनः साधारणनामकर्मोदयवर्तिनः, शरीरं शरीरं प्रति एक एक जीवः प्रत्येकः अनन्तजीवैः संभूय एकं शरीरं निष्पादनं तत्साधारणनाम ते अनन्तान् ये साधरणाः तान् घ्नन्तीति तान् । किंभूतान् ? स्ववधपरिज्ञानं अजानत एकेन्द्रियादीन् स्ववधपरिज्ञानं तत्र त्रसादीन् सुखदुःखमनुभवतः तान् जीवान् प्रति इमैः प्रत्यक्षवक्ष्यमाणैः विविधैः कारणैः किं तत्प्रयोजनं ?
करिसण - पोखरणी - वावि - वप्पिणि- कूब-सर-तलाग - चिति - चेतिय खाइयं आराम - विहार-थूभ-पागार-दार - गोउर- अहालग - चरिया - सेउ-संकम-पासाय- विकप्प-भवण- घर-सरण - लयण-आवण - चेइय-देवकुल- चित्तसभा - पवा - आयतणाव सह-भूमिघर - मंडवाण कए भायणभंडोवगरणस्स य विविहस्सय अट्टाए पुढवि हिंसंति मंदबुद्धिया ॥ ९ ॥
कर्षणं कृषिः, पुष्करिणी- कमलवती वापी चतुष्कोणा पुष्करिणी पुष्करवती वापी इत्यप्यर्थः, वमाः केदाराः, कूपः निपानं, सरो - लघु, तटाका - महत्सरः, चितिभित्यादिचयनं चेति मृतदहनार्थं काष्ठस्थापनं, खातिका - परिखा, आरामो- वाटिका, विहारो बौद्धाश्रयः, स्तुपः चितोपरिगृह, प्राकारः शालः ['गढ' इति भाषा, ] । द्वारं ['बार' इति भाषा,] गोपुरं प्रतोली कपाटं वा, अट्टाकः गढोपरि आश्रयविशेषः, चरिका नगरप्राकारयोरन्तराले अष्टहस्तप्रमाणः मार्गः, सेतुः पालिः, सङ्क्रमो विषमोत्तरणमार्गः,
आश्रवे
वध्यबधक
प्रयोजनानि
॥ १० ॥