SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक रण ज्ञान वि० वृत्तिः ॥८८॥ संग्रामोऽभवत्तथाहि किष्किन्धापुरे वाली सुग्रीवाभिधानौ आदित्यरथाभिधानस्य विद्याधरस्य सुतौ वानरविद्याधरौ बभूवतुः । तत्राऽऽदित्यराजाऽङ्गजो | निजाऽभिमानेन वाली निजराज्यं सुग्रीवाय दत्वा कृतप्रव्रज्यः सिद्धः । अथ सुग्रीवो राज्यं कुर्वन् तस्य भार्या तारा बभूव, ततश्च कश्चित् | खेचराधिपः साहसगतिनामा तारापरिभोगलालसः सुग्रीवरूपं विधायान्तःपुरं प्रविवेश । तया च चिह्नः प्रत्यभिज्ञाय निवेदिते निजतनुजादिमन्त्रिमण्डलस्य, तच्च सुग्रीवद्वयमुपलभ्य किमिदमाश्चर्यमिति विस्मयं जगाम । ततश्च निर्घाटितौ द्वावपि पुरात् युध्येते मत्सरेण द्वावपि अस्खलितोऽलीकसुग्रीवस्ततश्चासौ सत्यसुग्रीवो हनुमदाभिधानमहाविद्याधरराजपार्श्व गत्वा निवेदयतिस्म स त्वागत्य तयोर्विशेषमजानन्नकृतोपकार एव स्वपुरमगमत् ॥ ततश्च लक्ष्मणविनाशिते खरदूषणसम्बन्धीनि पाताललंकापुरे राज्यावस्थं रामदेवमाकलय्य शरणं प्रपन्नस्ततस्तेन सह समागतः सलक्ष्मणो रामः किष्किन्धापुरं स्थितो बहिःकृतच सुग्रीवेण बाहुशब्दस्तमुपश्रुत्य समागतोऽसावलीकसु| ग्रीवो रथारूढो रणरसिकः सन् तयोर्विशेषमजानंस्तद्वलं रामश्च स्थित उदासीनतया, कदर्थितः सुग्रीवः इतरेण, रामस्य गत्वा निवेदितं सुग्रीवेण देव ! तव पश्यतोऽप्यहं कदर्थितस्तेन, रामेणोक्तं कृतचिन्हः पुनर्युद्धख, ततोऽसौ पुनर्युद्ध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितोऽलीकसुग्रीवः, सत्यसुग्रीवस्तु तारया सह भोगान् बुभुजे इति तारार्थं युद्धं कथालेशः । काञ्चनाकृते संग्रामोऽभूत् सा काञ्चनाकथानकं तु केचित्तु काञ्चनां चिल्लणां वदन्ति परं वृहट्टीकाकारेण अप्रतीतं उक्तं अतो न लिखितं । तथा रक्तसुभद्रायाः कृते संग्रामो जातः । तत्र सुभद्रा कृष्णवासुदेवस्य भगिनी सा च पाण्डुपुत्रेऽर्जुने रक्ता तेन हेतुना रक्तसुभद्रेति नाम जातं, सा चैकदा अर्जुनसमीपमुपागता कृष्णेन च तद्विनिवर्त्तनाय बलं प्रेषितं, अर्जुनेन तयोल्लसितरणरसिकेन तद्विजित्य अधर्मद्वारे पद्मावतीतारा-रक्त सुभद्रा दृष्टान्ताः सू-१६ ॥८८॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy