________________
| पुंडरीयणयणा, एगावलीकंठरतियवच्छा, सिरिवच्छसुलंछणा, वरजसा, सव्वोउय सुरभिकुसुमसुरइय- पलंबसोहंतवियसंतचिल्लवणमालरतियवच्छा, अट्ठसयविभत्तलक्खण-पसत्थसुंदरविराइयंगमंगा, मत्तगयवरिंद-ललि | यविकमविलसियगती, कडिसुत्तगनीलपीतको सिज्जवाससा, पवरदित्ततेया, सारयनवथणियमहुरगंभीरनिद्धघोसा, पाञ्चजन्याऽभिधानः, चक्रं - सुदर्शनं, गदा - कौमुदिकी नाम्नी, शक्तित्रिशूलविशेषः नन्दकाभिधानः खड्गा एतान् धारयन्ति ये ते इदं च वासुदेवमाश्रित्योक्तं । पुनः प्रवरः प्रधानः उज्वलः सुकान्तः - सुष्ठुरम्यो विमलो - निर्मल: कौस्तुभो - वक्षोमणिः तथा तिरीटं मुकुटं तान् धारयन्ति ये ते तथा । कुण्डलेन - कर्णाभरणेन उद्योतितं द्योतितं आननं येषां ते तथा । पुण्डरीकं पद्मं तद्वद् नयने येषां ते तथा । एकावली कण्ठे रचिता - कृप्ता उरसि - वक्षसि हृदये येषां ते । श्रीवत्सः प्रतीतः स एव लाञ्छनं येषां ते उन्नतचतुरस्रोतर्वृत्तः श्रीवत्सः कथ्यते । वरं प्रधानं यशः सर्वदिग् प्रसरं येषां ते तथा, एकदिग्गामिनी कीर्त्तिः सर्वदिग्गामुकं यश इति वचनात् । | सर्वर्तुकैः - सर्वसामयिकैः सुरभिः सुगन्धिकुसुमैः सुरचिता प्रलम्बा शोभमाना विकसन्ती - विकचा फुल्लिता चिल्लिका - दीप्यमाना या वनमाला मालाभरणविशेषा रतिदा वा वक्षसि येषां ते तथा । अष्टशतेन विभक्तलक्षणानां स्वस्तिकादिचिन्हानां प्रशस्तानि - सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते तथा । मत्तो-दृप्तो यो गजवरेन्द्र - ऐरावणस्तद्वत् ललितः - सविलासो यो विक्रमः चंक्रमणं गमनं तद्वत् विलासयुक्ता - विलसिता गतिर्येषां ते तथा । कटिसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानि-वस्त्ररूपाणि वासांसि येषां ते तथा । एतावता नीलवस्त्राः बलदेवाः पीतवसनाः वासुदेवाः । पुनः कीदृशाः १ प्रवरदीप्ततेजसः - प्रधानभासुरकान्तयः । शरदि भवः शारदः - शरत्कालोत्पन्नो नवीनो यो घनो - मेघस्तस्य स्तनितं - गर्जितं तद्वन् मधुरः - कर्णसुखकृतगम्भीरोऽगाधः स्निग्धो मन्द्रो घोषो -
1 %