SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ RECEROSURESCARRA दंडेहिं आयवत्तेहिं धरिजतेहिं विरायंता, ताहि य पवरगिरिकुहरविहरणसमुट्टियाहिं, निरुवहयचमरपच्छिमसरीरसंजाताहिं अमइलसेयकमलविमुकुलुज्जलित-रययगिरिसिहरविमलससिकिरण-सरिसकलहोयनिम्मलाहिं पवणाहय-चवलचलियसललियपणच्चियवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं माणससरपसरपरि| समासो ज्ञेयः । तद् विनिर्मुश्चद्भिरित्यधिकृत्येति वाचनान्तरार्थो लिखितः ग्रन्थकृता श्रीमद्ज्ञानविमलमूरिणेति। पुनः किंविशिष्टैः सप्रतिदण्डैः अतिमहान्तत्वात् एकेन दण्डेन धारयितुमशक्यत्वात् प्रतिदण्डोपेतैः तादृशः आतपत्रैः छत्रैधियमाणैर्विराजमाना इति व्यक्तं, तैश्च अतिशयवद्भिश्चामरैः कलिता इति सम्बन्धः । किम्भूतैः प्रवरगिरेर्यत् कुहरं तत्र यत् विचरणं | गवामिति अध्याहारः, तस्मिन् समुद्धृतानि-उत्क्षिप्तानि कण्टकशाखिनि च लग्नभयतो यानि तानि तथा तैश्चामरैः सूत्रे तु चामरशब्दस्य स्त्रीत्वं विवक्षितं दृश्यते । निरुपहतं-निरोगत्वेन निरुपद्रवं चमरीगवां यत् पश्चिमशरीरं-देहपश्चाद्भागः पुच्छप्रदेशस्तत्र जातानि-उत्पन्नानि तथा तैः। अमलिन-निर्मलं पाठान्तरे आमलित-आमृदितं सितं-श्वेतकमलं पुण्डरीकं, विमुकुलं-विकसितं उज्वलितं द्र दीप्तं यत् रजतगिरिशिखरं विमलाश्च ये शशिनश्चन्द्रस्य किरणाः-रश्मयः तत्सदृशानि वर्णतो यानि तानि, तथा कलधौतवत्-रजतवत् निर्मलानि यानि तैः सर्वत्र कर्मधारयः ततस्तैः । पवनाहतो-वायुना ताडितः सन् चपलं यथा भवत्येवं चलितः सललित प्रवृत्त इव | सललितप्रवृत्तः-प्रवर्तितः वीचिभिर्महत्कल्लोल्लैः उत्स्यूताः क्षोरोदस्य-प्रवरसागरस्य य उत्पूरो-जलपूर इव तद्वत् चञ्चलानि यानि तथा तैः । एतादृशानि चामराणि हंसवधूपमयन्नाऽऽह-मानसाभिधानस्य सरसः प्रसरे-विस्तारे परिचितोऽभ्यस्त आवासो-निवासो विशदश्च-धवलो वेपो-नेपथ्यं यासां तास्तथा ताभिः, कनकगिरिशिखरसंश्रिताभिः। अवपात-उच्चैर्भूत्वा न्यगपतनं, उत्पातो-न्यग्भूय MEMORRORMONDAUCRACEBCACROCOM
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy