________________
34-3454
तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा, सारयससिसकलसोमवयणा, सूरा, तेल्लोकनिग्गयप | मेयमिति भावः, उन्मानं तुलाकर्षादि, बीजादीनां शाल्यादीनां देशकालौचित्येनोत्पत्तिनिष्पत्तिः॥३॥ चतुर्थ्यादिगाथाचतुष्कमुत्तानार्थ |॥७॥ सर्वभक्तीनां सर्वेषां वस्त्रादिगतानां भक्तिविशेषाणां रंगाणां मञ्जिष्टा-कुसुम्मादीनां धातूनां लोहादीनां ॥८॥ जगति त्रयो वंशा|स्तीर्थकर १चक्रि२ बलवासुदेव३सत्का एषु यद्भाव्य-भावि पुराणमतीतं, उपलक्षणत्वाद्वर्तमानं च शिल्पशतं-घट १ लोह २ चित्रक ३
वस्त्र ४ नापित ५ शिल्पानां प्रत्येकं विंशतिभेदत्वात् , कर्माणि-कृषिवाणिज्यादीनि जघन्यमध्यमोत्कृष्टभेदेन त्रीणि ९ शिलाः स्फाटि| कादयः१० आवरणानां खेटकादीनां सर्वापि युद्धनीतिःव्यूहरचनादिलक्षणा दण्डनीतिः सामादिचतुर्की॥११॥ त्रुटिताङ्गानामातोयानां | एषामुत्पत्तिराख्यायते-अन्ये च ते पूर्वोक्ताः पदार्थाः सर्वेऽपि नवसु निधिषूत्पद्यन्ते साक्षादेवेति व्याख्यानयन्ति ॥१२॥ प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानमवस्थानं येषां ते अष्टचक्रप्रतिष्ठानाः प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योजनानि उत्सेधः-उच्चस्त्वं येषां ते वैडूर्यमणिकपाटाः मञ्जूषासंस्थानसंस्थिताः सदैव गङ्गामुखेऽवस्थिताः भरतविजयानन्तरं चक्रिणा सह पाताले चक्रिपुरमनुगताः ॥१३॥ शशिसूरचक्राकाराणि लक्षणानि चिह्नानि येषा ते शशिसूरचक्रलक्षणाः, प्राकृतत्वाजसु लोपः, अनुरूपा समाऽविषमा वदनोपपत्तिारघटना येषां तेऽनुसमवदनोपपत्तिकाः ॥१४॥ आवासा-आश्रया आधिपत्याय-आधिपत्यनिमित्तमक्रेयाः नाऽधिपत्यं क्रयेण लभ्यं इति | भावः ॥१५॥ इति नवनिधिस्वरूपं प्रवचनसारोद्धारवृत्तितो वर्णितमिति ॥
समृद्धो-भृतो विभूतिभिः कोशो भाण्डागारं येषां ते तथा त्रयः समुद्राश्चतुर्थो हिमवान् तान् यावत् अन्तःवरूपं आज्ञा येषां ते | तथा, चतुर्भिः अंशः हस्त्यश्वरथपदातिलक्षणैः सेनाभिः समनुगम्यमानो मार्गों येषां ते तथा । पुनस्तदेव दर्शयति तुरगाणां अश्वानां
5 45454-%-5