________________
प्रश्न व्याक
रण ज्ञान
वि० वृत्तिः
॥६४॥
गयमणुगयं दुरंतं चउत्थं अधम्मदारं (सूत्रं १३)
तरस य णामाणि गोन्नाणि इमाणि होंति तीसं, तं जहा-अबंभं १ मेहुणं २ चरंतं ३ संसग्गि ४ सेवणाधि रति कथितं च स्वपक्षाऽब्रह्मासेवकस्य मिथ्यात्वबन्धोऽन्यथा तस्यागमे दुर्लभबोधितोक्ता यथा
'संजइच उत्थभंगे चेइयदव्वे य पवयणुड्डा हे । रिसिघाए य चउत्थे मूलग्गी बोहिलाभस्स || १ || इति । तथा चिरपरिचितमनादिकालसेवितं वा पाठः अनुगतं - अनवच्छिन्नं, दुरन्तं दुष्टफलं, चतुर्थमधर्मद्वारमाश्रवद्वारमिति तस्याऽब्रह्मस्य स्वरूपमुक्तं अथ तदेकार्थिकद्वारमाह
तस्य अब्रह्मस्य नामानि गोण्णाणि गुणनिष्पन्नानि त्रिंशद्भवन्ति तद्यथा अब्रह्म - अकुशलानुष्ठानं |१| मैथुनं युग्मस्य कर्म मिथुनं द्रव्यतो द्वयोः संयोगेन भावतो आत्मपरभावाभ्यां |२| 'चरन्तं' विश्वतो व्यापि | ३| संसर्गिः संपर्कः स्त्रीपुंससंगविशेषात् यतः - नामाऽपि स्त्रीति संह्णादि विकरोत्येव मानसं । किं पुनर्दर्शनं तस्या विलासोल्लासितभ्रुवः १ ॥ १॥ ४ ॥ सेवनानां चौर्यादिप्रतिसेवनानामधिकारो नियोगः, अब्रह्मकृत् प्रायचौर्यादिप्रतिसेवापरो भवति आह चसर्वेऽनर्था विधीयन्ते, नरैरर्थैकलालसैः । अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसीप्रेमकामिभिः || १ ||५| तथा संकल्प-विकल्पस्तत् प्रभवच्चात् यतः
काम! जानामि ते रूपं, संकल्पात् किल जायसे । न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ॥ १ ॥ इति ६ । १.संयतीचतुर्थभङ्गे चैत्यद्रव्यभक्षणादौ च प्रवचनोड्डाहे । ऋषिघाते च चतुर्थे मूलेऽग्निर्बोधिलाभस्य ॥१॥
अधर्मद्वारे अत्रह्मनामानि सू-१४
॥६४॥