________________
कम्पः स्वेदः श्रमो मूर्छा भ्रमिग्लानियलक्षयः, राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥१॥ तथा-जो सेवइ किं लहई थाम हारेइ दुब्बलो होइ, पावेइ वेमणसं दुक्खाणि अ अत्तदोसेणं ॥१॥ इति वचनात् | पुनः कीदृशं ? वधस्ताडनं संयमनं विघातो-मारणं एभिः दुष्करो विघातो यस्य तत् गाढरागाणामपि कामतीवेच्छा नोपशाम्यति यतःकृशः खञ्जः काणः श्रवणरहितः पुच्छविकलो, व्रणैः पूयक्लिन्नैः कृमिकुलशतैरावृततनुः । क्षुधाक्षामो जीर्णः पिठरककपालापितगलः शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥१॥इति पुनः कीदृशं ? दर्शनचारित्रमोहस्य हेतुभूतं-तद्वन्धननिमित्तं, ननु चारित्रमोहस्य हेतुस्तत्प्रतीतं यदागमःतिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई ॥१॥ द्वैविध्यं कषायनोकपायभेदात् परं यत् दर्शनमोहस्य हेतुरुक्तं तत् कथं संजाघटीति ? सत्यं तथाहि-तद्धतुकां गाथामाहअरिहंतसिद्धचेईअतवसुअगुरुसाहुसंघपडणीओ। बन्धति दसणमोहं अणंतसंसारिओ जेणं ॥१॥ भवतीति शेषः, स्वरूपपक्षाऽब्रह्मसेवनेन या संघप्रत्यनीकता तया दर्शनमोहं बध्नतो अब्रह्मचर्य दर्शनमोहनीयहेतुतां न व्यभिच१ यः सेवते किं लभते स्थाम हारयति दुर्बलो भवति । प्राप्नोति वैमनस्यं दुःखानि चात्मदोषेण ॥१॥ २ अस्मिन् पद्ये द्वितीय-तृतीयपादौ प्रत्यन्तरे विपर्यस्तौ दृश्यते । ३ तीवकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः । बध्नाति चारित्रगुणघातिनं द्विविधमपि चारित्रमोहं ॥१॥ ४ अर्हत्सिद्धचैत्यतपस्विश्रुतगुरुसाधुसङ्घप्रत्यनीकः । बध्नाति दर्शनमोहमनन्तसंसारिको येन ॥१॥