SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रश्न व्याक रण ज्ञानवि० वृत्तिः ॥५९॥ तथाच - - ' व्यक्तितोऽङ्खयभेदास्ताः, संख्याही नैव यद्यपि । तथापि समवर्णादि--जातिभिर्गणनां गताः ॥ २ ॥ तथोक्तं प्रज्ञापनावृत्तौ - "केवलेमेव विशिष्टवर्णादियुक्ताः संख्यातीताः स्वस्थाने व्यक्तिभेदेन योनयो, जातिमधिकृत्य एकैव योनिर्गुण्यन्ते । लक्षाश्चतुरशीतिश्च, समान्येन भवन्ति ताः । विशेषात्तु यथास्थानं, वक्ष्यन्ते स्वामिभावतः ॥ ३ ॥ पुनस्त्रिविधा योनिः संवृता विवृता चैव योनिर्विवृतसंवृता । विस्पष्टमनुपलक्ष्यमाणा संवृता, स्पष्टमुपलक्ष्या जलाशयादिवदिति विवृता ||४|| उक्तो भयस्वभावा तु योनिर्विवृतसंवृता, बहिर्द्दश्यादृश्यमध्या नारीगर्भाशयादिवत् ॥ ५ ॥ तृतीययोनयः स्तोकास्तेभ्योऽसंख्यघ्ना द्वितीययोनयः, तेभ्योऽनन्तगुणिताऽयोनयस्तेभ्योऽनन्तगुणिताः प्रथम योनयः ॥ ३ ॥ अथ पुनस्त्रिविधा योनयः- शीता, उष्णा, शीतोष्णाः पूर्ववद्भाव्याः ३ एवं सचित्ता अचित्ता मिश्राः, तत्र जीवप्रदेशैः परस्परमनुगमेनोररीकृता जीवदेहादिः सचित्ता, तदितरा शुष्ककाष्ठादिवदचित्ता, अतएवांगिभिः सूक्ष्मैर्निखिलपूरिते लोके तत्प्रदेशैरचित्तानां योनीनां सचित्तता न भवति, सचित्ता अचित्ता तु मिश्रा नृतिरश्चां योनिः योनौ यथा शुक्रशोणितपुद्गलाः ये आत्मसात्कृतास्ते सचित्ता अपरे अचित्ता अतो मिश्रा, यथा- स्त्रीणां नाभेरधस्तात् शिराद्वयं पुष्पमालावैकक्षकाकारमस्ति, तस्याऽधस्तादधोमुखसंस्थितकोशाकारा योनि, तस्याश्च बहिश्श्रूतकलिकाकृतयो मांसमंजर्यो जायन्ते । ताः किलाऽसृक्स्पन्दित्वात् ऋतौ स्रवन्ति, तत्र केचिदसृजो लवाः कोशाकारकां ३ अधर्मद्वारे चौरिकाफलं सू० १२ ॥५९॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy