SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ -बाचाराङ्ग सदीपिका संविधा' इत्यादि-इत्येवमासविताः सम्यग् योगत्रिकेणोत्थितास्माद्वान्तपरिभोगकृतप्रतिज्ञस्तरमा निर्गतः | केचिन्महानुभावाः संयम स्वी. कृत्याहिं सका थापीति ? दर्शयति "आसेवित्ता एयम₹ इथेवेगे समुट्ठिया, तम्हा तं बिइयं नो सेवे निस्सारं पासिय नाणी, उववायं चवणं ना, अणण्णं चर | माहणे, से न छणे न छणावए छणतं नाणुजाणइ, निश्चिंद नंदि, अरए पयासु, अण्ोमदंसी णिसन्ने पावेहिं कम्मेहिं" 'आसेविचा' इत्यादि-इत्येवमासेवित्वा वधादिकं पूर्वोक्तं 'एयमढे 'त्ति एतदर्थ विषयाभिष्वङ्गं लोमादाश्रवप्रवृत्तिलक्षणमनुभूय एके भरतादयः समुत्थिताः सम्यग् योगत्रिकेणोत्थिताः समुत्थिताः संयमानुष्ठानोद्यता: सिद्ध्यन्ति । संयमोत्थानेनोत्थायाश्रवं हित्वा किं ? विधेयमित्याह-'तम्हा' इत्यादि-यस्माद्वान्तपरिभोगकृतप्रतिज्ञस्तस्माद् द्वितीय मृषावादमप्यसंयम नासेवेत । विषयार्थमसंयम सेव्यते। ते च निःसारा इति दर्शयति-'निस्सार' मित्यादि-निर्गतः सार:-तृप्तिलक्षणं यस्मात्स निःसारः तं 'पासिय 'त्ति-दृष्ट्वा ज्ञानी न विषयाभिलाषं विदध्यात् । सर्वेषां विषयास्वादनमनित्यमिति दर्शयति-उववायं चवणं ति-उत्पातं-जन्म च्यवन-मरणं, तच्च ज्ञात्वा विषयसंगोन्मुखो भवेत् । एवमशाश्वतं मत्वा किं ? कर्त्तव्यमित्याह-'अणण्णं' इत्यादि-मोक्षमार्गादन्योऽसंयमो न अन्योऽनन्यो-ज्ञानादिस्तं चर-सेवस्व । माहणेत्तिहे मुनेनः किं ? 'से न छणे' इत्यादि-स मुनिरनन्यसेवी प्राणिनो न क्षुणुयात्-न हन्यात् , नाप्यपरं घातयेत् , मन्तमन्यं न समनुजानीत, चतुर्थव्रतसिद्धये त्विदमुपदिश्यते 'निविंद नंदि 'ति-निर्विन्दस्व-जुगुप्सस्त्र, कां ? विषयजनितां 'नन्दीप्रमोदम् । किम्भूतः सन् ?, 'अरए पयासु 'त्ति-प्रजासु-स्त्रीषु अरक्को रागादिरहितो भावयेच्च यथैते विषयाः किम्पाकफलोपमाः । अतो विषयपराङ्मुखो भवेदित्याह-'अणोम' इत्यादि-अवम-हीनं मिथ्यादर्शनाविरत्यादि, तद्विपरीतमनवमं सम्यग् ला भवन्ति । ॥९ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy