SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्री माघाराज पत्रदीपिका ब.३ सम्यग्दर्शनं वा एतत्परमोत्कृष्टं ज्ञात्वा किं ? करोतीत्याह-आयंक' इत्यादि- आतङ्को- नरकादिदुःखं तद्रष्टुं शीलमस्येति इत्यान्तकदर्शी पापं न करोति योगकरणत्रिकेणापि । पुनराह- अग्गं 'चेति-अग्रं-भवोपग्राहि कर्मचतुष्टयं, मूलं-घातिकर्मचतुष्टयं, तदेवं सर्वमग्रं च मूलं च 'विगिच'त्ति-त्यज-पौद्गलिकशरीरात्मात्पृथक्कुरु । पुनः किञ्च 'परिछिदिय.'ति-परिः सामस्त्येन तपसंयमाभ्यां कर्मवन्धनानि छिचा निःकर्मदी भवति-निःकर्माणमात्मानं पश्यतीत्यर्थः। निःकर्मदर्शी किमाप्नुयादित्याह - "एस मरणा पमुखइ, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सया जए कालकंखी परिव्वए, बहुं च खलु पावं कम्मं पगढं" ___'एस' इत्यादि-एपो निःकर्मदर्शी मरणात्प्रमुच्यते, आयुषो बन्धनाभावात् । स च हुरवधारणे दृष्टभयो मुनिः, दृष्टं भयं येन स दृष्टभयः । 'लोगसि 'त्ति- लोके पट्कायजीवलोके परममुत्कृष्टं संयम द्रष्टुं शीलमस्येति परमदर्शी । विवितजीवीति-विविक्तं असंक्लिष्टं-रागद्वेषरहितं स्त्रीपशुपण्डकादिरहितं वा, विविक्तेन जीवितुं शीलमस्येति विविक्तजीवी । एवमुपशान्तः प्रवचनाष्टमातृवान् , समित:- समितिमिः सहितः ज्ञानान्वितः सदा सर्वकालं यतेत-प्रमादं परिहरेत् । एवंविधः किं ? स्यादित्याह-'कालकंखी'- कालो-मृत्युस्तमाकांक्षितुं शीलमस्येति कालाकांक्षी स. एवंभूतः परिसमन्ताद् ब्रजेत् , पावत्पर्यायागतं पण्डितमरणं तावदाकांक्षमाणो विविक्तजीवी सन् संयमानुष्ठानमोक्षमार्गे परिवसेत् । एतत्किमर्थ क्रियत ? इत्याह-' पहुंचे 'त्यादि-चः समुच्चये, खलुरवधारणे, बहेव तत्कर्म मूलोत्तरप्रकृतिभेदमिन्न प्रकट-लोकप्रसिद्धं, ततस्त अग्रमूलं त्यच्या. निःकर्मदर्शी सन् मोक्षमवाप्नोति। , सामदारहितं स्त्रीपशुपण्डकावलोके परममुकष्ट सात् । स च हुरवा ॥९२॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy