________________
स्नेहपार्श
| निवार्य
बालसंगो न कर्त्तव्यः।
उम्मुंच पास इह मचिएहिं, आरंभजीवी उभयाणुपस्सी । कामेसु गिद्धा निचर्य करंति, संसिच्चमाणा पुणरिति गम्भं ॥५॥
'उम्मुंच' इत्यादि-इह मनुष्यलोके मयः सार्द्ध स्नेहपाशमुन्मुश्च- अपाकुरु । स हि भोगाकांक्षी सावद्यारम्भं प्रकुरुत इत्याह-'आरंभ' इत्यादि- आरम्भेन जीवितुं शीलमस्येत्यारम्भजीवी । ' उभयाणु 'त्ति उभयं शारीरमानसं हिकामुष्मिक वा द्रष्टुं शीलमस्य स उभयानुदर्शी। 'कामेसु'त्ति-कामा इच्छामदनरूपास्तेषु गृद्धा निचयं कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह-तं 'संसिच्चमाण 'चि-ते च कामोपादानजनितेन कर्मणा संसिच्यमाना--आपूर्यमाणा अरघट्टघटीन्यायेन | | संसारचक्रे गर्भाद् गर्भान्तरमुपयान्ति । निवृत्तात्मा किंभूतो भवतीत्याह
अवि से हासमासज, इंता नंदीति मन्नई । अलं बालस्स संगेण, वरं वहेइ अप्पणो ॥६॥ 'अवि से' इत्यादि-हीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य- अङ्गीकृत्य स कामगृध्नुहत्वापि प्राणिनो 'नन्दी' ति-क्रीडेति मन्यते । बदति च महामोहावृतोऽशुभाध्यवसायो, यथा-एते पशवो मृगयार्थ सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृषावादादिष्वप्यायोज्यं । यदि नामैवं ततः किमित्याह-'अलं'ति- अलं-पर्याप्त बालस्य प्राणातिपातकारिणः सङ्गेन हास्यादिवर्णनेन । किमिति चेद् ! उच्यते-'वेर' मित्यादि-तत्सङ्गं कुर्वतश्चात्मनो वैरं वर्द्धयति । यतश्चैवं ततः किमित्याह. तम्हाऽतिविजो परमंति णच्चा, आयंकदंसी न करेइ पावं । अग्गं च मूलं च विगिंच धीरे, पलिच्छिदिया णं निकम्मदंसी ॥७॥
'तम्ह 'ति-यमा बालस्य संगिनो वैरं वर्द्धते, तस्मादतिविद्वान् परमं-मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं
सोहाताविष्ठको हाल बालस
ALOCHARACHAR