SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उ०-२ भावसुप्त बाचारागसदीपिका ब.३ प्रदर्शनम्। ॥९ ॥ tAAAAA श्यमानः ताभ्यामनपदिश्यमानो वा, तत्कर्म तदुपादानं वा रागादिकं, परिक्षया प्रत्याख्यानपरिज्ञया परिहरेदिति । तं परिणाय-तं रागादिमोहितं लोकं विषयकषायलोकं वा ज्ञात्वा, वान्त्वा च लोकसंज्ञा-विषयाभिलापात्मिका, मेधावी-मर्या- दावान् व्यवस्थितः सन् पराक्रमेत-संयमानुष्ठान उद्युक्तो भवेदित्यर्थः । विषयपिपासामरिषड्वगं वाऽष्टप्रकारं कर्मावष्ट. भ्यात् । इति परिसमाप्तौ ब्रवीमि पूर्ववत् इति शीतोष्णीयाध्ययने प्रथमोद्देशकः ॥ अथ द्वितीय आरम्यते । प्रथमोद्देशके भावसुनाः प्रदर्शिताः। इह तु तेषां स्वापविपाकफलं असातमुच्यते । अस्यादिमं सूत्रम्___“जाई च बुद्धिं च इहऽज्ज ! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविजे परमंति णच्चा, सम्मत्तदंसी न करेइ पावं ॥४॥" 'जाइंचे 'त्यादि-जातिः प्रसूतिः, बालादिवृद्धावसाना वृद्धिः, इह मनुष्यलोके संसारे वा, अद्यैव जाति च वृद्धिं च पश्य-अवलोकय । एवं विवेकचक्षुषा विलोक्यालोच्य जात्यादिकं न स्यात्तथा विधत्स्व । किञ्च- भूएहिं सायं पडिलेह' त्ति-भृतानि-चतुर्दशभूतग्रामाः, तैः सममात्मनः सुखं सातं प्रत्युत्प्रेक्ष्य पर्यालोच्य जानीहि, यथा त्वं सुखप्रियः दुःखपरा मुखः, तथाऽन्येऽपि प्राणिनः । एवं मत्वा अन्येषामसातोत्पादनं न विदध्याः । एवं च जन्मादिदुःखं न प्राप्स्यसि । यद्येवं ततः किमित्याह- तम्हातिविजो 'त्ति-तस्माद्-जातिवृद्धिसुखदुःखदर्शनादतीव विद्या-तत्वपरिच्छेत्री यस्यासावतिविद्यः सः परममुत्कृष्टं मोक्षमार्ग ज्ञात्वा समत्वदर्शी सन् पापं न करोति-सावद्यानुष्ठानं न करोति । पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह ॥ ९ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy