________________
॥ ८७ ॥
रूपपरिच्छेदीति । स एव मुनिः ' बच्चे 'ति वाच्यः । स एव धर्म्मवित् श्रुतवारित्ररूपं वा वेतीति धर्मवित् । स एव ऋजुरकुटिलः । तदेवं धर्म्मविद्यजुर्मुनिः किम्भूतो भवतीत्याह-' आवट्टसोए 'चि- आवर्त्तश्च श्रोतावर्त्तश्रोतसी तयोः रागद्वेषाभ्यां सम्बन्ध:- सङ्गस्तमभिजानाति, ज्ञात्वाऽऽभिमुख्येन छिनति । एवंविधश्व कं गुणमवाप्नुयादित्याह -
" सीउसिणच्चाई से निग्ांथे अरइरइसहे, फरुसयं नो वेएइ, जागरवेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामशुवसोवणीए नरे सययं मूढे धम्मं नाभिजाणइ "
' सीतोसिणच्चाई 'त्ति - निर्ग्रन्थः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः । स एव निर्ग्रन्थः- बाह्याभ्यन्तरग्रन्थिविकलः, एवंविधः संयमारतिरती सहतीति सहः सन्, 'फरुसिमं 'ति- परुषतां कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो वेत्ति, न तां पीडाकारित्वेन गृह्णातीत्यर्थः । किञ्च - 'जागरवेरोवरए' - जागर्त्तीिति जागरः, अपकाराध्यवसायो वैरं तस्मादुपरतो वैरोपरतः, जागरश्वासौ वैरोपरत जागरवैरोपरतः । एवं वीर ! त्वमात्मानं दुःखात् प्रमोक्षसीत्यर्थः । अजागरः सन् किमाप्नुयादित्याह - ' जरामचवसोवणीए 'ति - जरामृत्युवशोपनीतो नरः प्राणी सततमनवरतं मूढो महामोहितमतिः धर्म्म स्वर्गापवर्गलक्षणं नाभिजानीते - नावगच्छति । तत् संसारे स्थानमेव नास्ति यत्र जरामरणे न स्तः, देवानां जराभावोऽस्ति, परमाबाधाकाले सर्व्वं सम्पद्यते माल्यग्लानिरित्यादिः । अतः सर्व जरामृत्युवशोपनीतं मत्वा किं कुर्यादित्याह -
" पासिय आउरपाणे अप्पमतो परिव्वए, मंता एवं मइमं पास, आरंभजं दुक्खमिणंति णच्चा, माई पमाई पुण एइ गन्भं,
स मुनिः प पहादीनां सहायकारित्वं मन्य
नेतर
इति ।
॥ ८७ ॥