________________
८५॥
तृतीयेध्य यने
प्रथम सुप्तासुप्तविचार
A%
इति लोकविजयाध्ययनं समाप्तम् ।। ___'उद्देसो' इत्यादि-उद्दिश्यते नारकादिव्यपदेशेन इत्युद्देशः, स पश्यकस्य परमार्थदृशो नास्ति-न विद्यते इत्यादीनि च सूत्राणि उद्देशकपरिसमाप्तिं यावत् तृतीयोदेशके व्याख्यातानि आक्षेपपरिहारौ चेति । तानि चामूनि-बालः पुनर्नेहः कामसमनुज्ञोऽशमितदुःखो दुःखानामेवाव अनुपरिवर्त्तते। इति समाप्तौ ब्रवीमि पूर्ववत् । उक्तः षष्ठोद्देशकः, तत्समाप्तौ च समाप्तं लोकविजयाध्ययनम् । इति चंद्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वरमरिसर्वसूरिशिरोमणीनां पट्टे श्रीअजितदेवसरिविरचितायां श्रीमदाचाराङ्गस्य दीपिकायां लोकविजयाख्याध्ययनं समाप्तम् ।। उक्तं द्वितीयाध्ययनं, साम्प्रतं तृतीयमारभ्यते, अत्र विजितकषायलोकस्य साधोः कदाचित्कर्मोदयादनुलोमादिकाः परीषहाः समुत्पद्यन्ते ते सोढव्या इत्यनेन सम्बधेनापातमिदमध्ययनं, तस्यादिमं सूत्रम्-.
“सुत्ता अमुणी, सया मुणिणो जागरंति" 'सुचा अमुणी'- व्या०- अत्र सुप्ता द्विधा द्रव्यभावाम्यां । निद्राप्रमादापन्ना द्रव्यसुप्ताः, मावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः । ततो ये मुनयो मिथ्यादृशः सततं मावसुप्ता, सद्विज्ञानानुष्ठानरहितत्वात् । ततो ये मुनयो भगवदाज्ञानुष्ठायिनस्ते सततमनवरतं जाग्रति हिताहितप्राप्तिपरिहारं कुर्वते । ये सुप्तास्तेऽज्ञानोदयाद् भवन्ति । अज्ञानं च महादुःखम् । दुःखं च जन्तूनामहितायेति दर्शयति
“लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणिवा, इस सत्योवरए, जस्सिमे सदा य रूवा य रसा व गंधा व फासा
GSPECHAKSHARA
5
C
%5-15
॥८५॥