SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ॥८३॥ धर्मकवान विधिजस्व रूपम् । PERASACSA इत्थं हितोपदेशं कथयतः श्रेयः कल्याणं, अहितं कथयतो नास्ति श्रेयः पुण्यमिति भावार्थः । एवं निरीहतया धर्मोपदेशदायकेन अग्रेतनस्य श्रोतुर्भावो विचार्यः । ' कोयं पुरिसे'त्ति-कोऽयं पुरुषो मिथ्यादृष्टिः, उत भद्रकः १ 'केनाऽभिप्रायेणायं पृच्छति स्म, १६ च देवताविशेष मन्यते ?, किमनेन दर्शनमाश्रितं ? इत्येवमालोच्य प्रत्युत्तरं दातव्यम् । एतदुक्तं भवतिधर्मकथाविधिज्ञो हि आत्मना परिपूर्णः श्रोतारमालोचयति । द्रव्यतः क्षेत्रतः कालतः भावतश्चालोच्य यथा यथाऽसौ बुद्धयते तथा तथा धर्मदेशना कार्या । एवं धर्मकथाविधिज्ञ उपदेशदानयोग्यो भवति, अपरस्य त्वधिकार एव नास्ति । उक्तं च-जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ । सो ससमयपन्नवओ सिद्धन्तविराहओ अण्णो ॥१॥ य एव धर्मकथाविधिज्ञः स एव प्रशस्तः, । आह च-'एस वीरे पसंसिए'ति-एप धर्मकथाविधिज्ञः वीरः कर्माष्टदलनः प्रशंसितः-श्लाधितः। स किंभूतो? भवतीत्याह-"जे बद्धे पडिमोयए'ति यो अष्टविधकर्मणा स्नेहादिनिगडेन बद्धानां जन्तूनां प्रतिमोचको धर्मों. पदेशदानादिना । क पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह-'उड्ड'मित्यादि-उर्ध्व ज्योतिष्कादीन् , अधो भवनपत्यादीन् , तिर्यदिक्षु मनुष्यादीन् मोचयति । 'से सबओ' इत्यादि-स इति वीरः बद्धप्रतिमोचकः सर्वतः सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति स च सर्वपरिज्ञाचारी विशिष्टज्ञानान्वितः सर्वसंवरचारित्रोपेतो वा चित्रजीववदित्यर्थः । स एवंभृतः कं गुणमवामोतीत्याह- 'न लिप्यते'-नावगुण्ड्यते, केन?, 'छणप्पदेण-क्षणपदेन-हिंसापदेन प्राण्युपमर्दजनितेन, कोऽसौ? वीरः । किमेतावदेव वीरलक्षणमुताऽन्यदप्यस्तीत्याह-'से मेहावी'-स मेधावी-बुद्धिमान् अनोद्घातनस्य खेदज्ञः, अणति अनेन चातुर्गतिकसंसारमिति अणं-कर्म, तस्योत्प्राबल्येन पावनमपनयनं, तस्य तत्र वा खेदज्ञो निपुणः। 'जे य बंधप्पमोस्ख' ॥८३.॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy