SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 18 श्री बाचाराङ्गखदीपिका 449 ॥८२॥ AHABHARASHRA इतिः पूर्वोक्तपरामर्शकः, दुःखं कर्मकृतं तत्कर्म अष्टप्रकारं परिज्ञाय-ज्ञात्वा सर्वश:- सर्वैः प्रकारैर्योगत्रिककरणत्रिकरूपैन वत। अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा । यदिवा सर्वशः कथयति उपदेश विआक्षेपण्याद्या चतुर्विधया धर्मकथयेति । सा च कीदृक्कथेत्याह- 'जे अणण्णदंसी 'त्ति अन्यद् द्रष्टुं शीलमस्येत्यन्यदर्शी न ये तुल्यता अन्यदर्शी अनन्यदर्शी यथावस्थितपदार्थद्रष्टा, स एवऽनन्यारामो मोक्षमार्गादन्यत्र न रमते । यश्च भगवदुपदेशादन्यत्र न प्रदर्शनम्। रमते सोऽनन्यदर्शी। तदेवं सम्यक्त्वस्वरूपमाख्यातम् । कथयंश्चारक्तद्विष्टः कथयतीति दर्शयति-'जहा पुण्णस्स' इत्यादियथा पुण्यवतः शक्रचक्रिमण्डलिकादेः कथ्यते- उपदेशो दीयते, तथा तेनैव विधिना तुच्छस्य- द्रमकस्यापि काष्टहारादेः कथ्यते । अथवा 'पुण्णस्स'त्ति- पूर्णो- जातिकुलरूपाद्युपेतः, तद्विपरीतस्तुच्छो, विज्ञानवान् पूर्णः ततोऽन्यस्तुच्छः । यतःज्ञानेश्वर्यधनोपेतो जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययवान् ॥ १॥ संसारोत्तारणहेतुं यथा चक्रयादेस्तथा द्रमकस्यापि कथयति । अत्र निरीहता निवेदिता, न पुनरयं नियमः। यो यथा बुद्ध्यति तथैव तस्य कथ्यते। बुद्धिमतो निपुणं, स्थूलबुद्धेस्त्वन्यथेति । एवमपि कदाचिदऽसौ प्रद्वेषमुपगच्छेत् । द्विष्टश्चतद्विदध्यादिति आह च "अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नस्थि, केयं पुरिसे ? कं च नए ? एस बीरे पसंसिए, जे बढे परिमोयए, उई अहं तिरिय दिसासु, से सवओ सव्वपरिन्नाचारी न लिप्पई छणपएण वीरे, से मेहावी अणुग्घायणखेयन्ने, जे य वन्धपमुक्खमन्नेसी कुसले पुण नो बद्ध नो मुक्के" . 'अवि य हणे' इत्यादि-अपि च हन्यात् तद्धर्मनिन्दनात् , अनाद्रियमानो हन्यात् तं न वक्तव्यम् । एत्थं पित्ति- IPU॥८॥ PRASAGARCANESCRECCLOCAL
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy