________________
H८१ ॥
4
'दुबसु गुणी 'ति - वसुर्द्रव्यं, अत्र द्रव्यं मव्यः- मुक्तिगमनयोग्यः संयमश्च कथ्यते ? दुष्टं वसुर्दुर्वसुः मुक्तिगमनाऽयोग्यः स च कुतो मवति १, ' अणाणाए 'चि-अनाशः - तीर्थकरोपदेशशून्यः स्वैरी इत्यर्थः । श्रीजिनाज्ञापालनं दुष्करमस्ति, निरोधकल्पायामाज्ञायां दुःखं वसति । अवसंच किम्भूतो भवतीत्याह- ' तुच्छए गिलाइ 'चि- तुच्छो- रिक्तः स च द्रव्यतो निर्धनो घटादिर्वा जलादिरहितो, भावतो ज्ञानादिरहितः । संशये पृष्ठे केनापि ग्लायति वक्तुं ज्ञानान्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्ध मार्गप्ररूपणावसरे ग्लायति - ग्लानिं प्राप्नोति । यथोक्तकारी वक्तुं समर्थो भवति । ' एस वीरे 'तिएस बीरः प्रशंसितः । एवं शुद्धमार्गप्रवेदनाद् वीरः । अचेइति - अत्येति- अतिक्रामति के ? लोकसंयोगं, लोकेनासंयतलोकेन संयोगः- सम्बन्धः, अथवा लोको- बाह्याभ्यन्तरादिकमष्टप्रकारं कर्म्म तेन सार्द्धं संयोगमत्येति - लंघयति, 'एस जाए 'चिएष न्यायः सम्यक् साध्वाचारः प्रोच्यते सदुपदेशात् । स्यादेतत्- किंभूतोऽसावुपदेश इत्यत आह
" जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरति, इति क्रम्मं परिज्ञाय सव्वसो जे अणनदंसी से अणणारामे, जे अणण्णारामे से अणन्नदंसी, जहा पुण्णरस कंस्थइ तहा तुच्छरस कत्थइ, जहा तुच्छरस कत्थर वहा पुण्णस्स कत्बई'
' दुक्खं ' यदशुद्धोपदेशनं दुःखमिति संसारभ्रमणं प्रवेदितं इह मानवानां तीर्थकृद्भिरावेदितमित्यर्थः । ' तस्स दुक्खस्कुसला परिणमुदाहरति 'ति तस्य दुःखस्याऽसातलक्षणस्य कुशलाः- विशेषज्ञाः धर्म्मकथालन्धिसम्पन्नाः स्वसमयपरसमयविदः उद्युक्तविहारिणो यथावादिनस्तथाकारिणस्ते एवंभूताः परिज्ञा- उपादानकारणपरिज्ञानं निरोध कारण परिच्छेदं च उदाहरन्ति, द्विविधयापि परिज्ञया परिहरन्ति स्वयं, तथा चान्यान् परिहारयन्तीति भावार्थ: । ' इति क्रम्मं परिभाव' चि
उ० ६
अनन्य
दश्यनन्या
रामस्वरूप प्रकटनम् ।
॥ ८१ ॥