________________
॥ ७९ ॥
मानसदुःखोत्पादनं तस्मै नो कर्म्म कुर्याद्, येन प्राण्युपमर्द्दनं भवति, तन्न विदध्यादित्यर्थः । एवं च सति किं स्यात्तदाह'एस' चि- एषा परिज्ञा प्रोच्यते । एवंकृते किं स्यात्तदाह- कर्मोपशांतिर्भवति, केषां १ इत्याह
" जे ममाइयमई जद्दाइ से चयइ ममाइयं, से हु दिट्ठपद्दे मुणी जस्स नत्थि ममाइयं, तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिक्कमिज्जासित्ति बेमि । नारई सहई वीरे, वीरे न सहई रति । जम्हा अविमणे वीरे, तुम्हा वीरे न
रज्जइ ॥ २ ॥
' जे ममाइय मित्यादि - ये ममायितमतिं जहति -त्यजन्ति, ममायितं मामकं तत्र मतिर्ममायितमतिस्तां यो जहाति-परित्यजति स्वाङ्गीकृतं मुञ्चतीत्यर्थः । किमित्याह - 'से हु दिट्ठपट्टे' इत्यादि - स दृष्टपन्था मुनिः, दृष्टः ज्ञानादिको मोश्वपन्था येन स दृष्टपन्थाः । अथवा दृष्टभयः- भया इहलौकिकाद्याः सप्तैव' जस्स 'चि यस्य नास्ति ममायितं तं " परिण्णाय 'चि - तन्ममायितं दुःखप्रतिपादकं परिज्ञाय मेधावी मर्यादावर्ती विदित्वा ज्ञात्वा लोकमेकेन्द्रियादिलक्षणं, वंता लोयति - वान्त्वा उद्गीर्य लोकसंज्ञां दशप्रकारां स इति मुनिः । किंभूतो ?, मतिमान् - विवेकज्ञः सन् पराक्रमेथाः- संयमानुष्ठानोद्योगं सम्यग् विदध्याः । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । एवंभूतो हि किं भवतीत्याह-' णो रतिं सद्दह' ति व्या० वीरः शक्तिमान् साधुः कदाचिन्मोहनीयोदयादरतिराविःस्यात्, तामुत्पन्न संयमविषयां न सहते -न क्षमते । तद्विपरीतां रतिमपि न सहते । ताभ्यां रत्यरतिभ्यां विमनीभूतो न शब्दादिषु रज्यते । अतो रत्यरतिपरित्यागान्न विमनस्को भवति । नापि रागमुपयातीति दर्शयति- यस्मात् त्यक्तरत्यरतिस्तस्मात्कारणाद् वीरो न रज्यति-शब्दादिविपयग्रामे गादर्थं
दृष्टमोक्षपथमुनि
वरस्य रत्यरत्यभाव
दर्शनम् ।
॥ ७९ ॥