________________
७७॥
लोके म| मत्ववर्जनोपदेशः।
योरपि कर्तुः कारयितुश्च हननादिकाः क्रियाः। ततोऽलं-पर्याप्त बालस्याऽज्ञस्य सङ्गेन कर्मबन्धहेतुना करिति । यश्चैवं कारयति बालोजस्तस्याप्यलं, एतदुपदेशदानमनगारस्य न भवतीत्याह च-'ण एवं अणगारस्स 'ति- एवंभूत प्राण्युपमर्दैन चिकित्सोपदेशदानं करणं वा अनगारस्य-साधोन जायते-न कल्पते इति ब्रवीमि । लोकविजयाध्ययनस्य पश्चमोद्देशकः समाप्तः ॥ साम्प्रतं षष्ठः प्रारम्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना लोके ममत्वं न | कर्त्तव्यमित्युक्तं तत् प्रतिपाद्यते । तच्चेदं सूत्रम्___से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मं नेव कुज्जा न कारवेज्जा" _ 'से तं' इत्यादि-सोऽनगारस्तव-प्राण्युपपातकारिचिकित्सोपदेशदानमनुष्ठानं वा संबुध्यमानो- अवगच्छन् आदातव्यमादानीयं, तच्च भावार्थतो भावादानीयं-ज्ञानादित्रयरूपं तदुत्थाय- गृहीत्वा, कि, कुर्यादित्याह- 'तम्हा पावकम्म'
ति- यस्मात्संयम आरम्भनिवृत्तिलक्षणः तस्मादादाय पापहेतुत्वात्कर्माक्रियां स्वतो न कुर्यात् , मनसाऽपि न समनुजानी. है यात्, इत्यवधारणफलं, अपरेणाऽपि न कारयेदित्याह- 'न कारवे 'चि अपरेणाऽपि न कारयेत् । अर्थतोऽष्टादशपापस्थानानि
न कुर्यात्स्वयं, नाप्यपरेण कारयेत् , कुर्वन्तमन्यं न समनुजानीयात् , योगत्रिकेणेत्यर्थः । स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुतोऽपरमपि ढौकत आहोस्विनेत्याह
"सिया तत्व एगयर विपरामुसइ छसु अमयरंमि कप्पड़, सुहट्ठी लालप्पमाणे सरण दुक्खेण मूढे विपरियासमुवेइ, सरण विप्पमाएष पुढो वयं पकुम्बइ, सिमे पाणा पम्बहिया, पडिलेहणाए नो निकरणयाए, एस परिमा पवुषह, कम्मोवसंती"
ECARROREKA4%