SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ॥७५|| ARI SARGAHASRAEHECHER मुटे पूणो तं करेइ लोहं वेरं बहेइ अप्पणो, जमिणं परिकहिज्जइ इमस्स चेव पडिबूहणयाए अमरायइ महासही अट्टमेयं तु पेहाए अपरिणाए कंदह" दुख प्राप्ति समतिमान् -श्रुतवानित्यर्थः, एवं यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयापि परिज्ञया परिक्षाय किं कुर्यादि- रितित्याह-'मा य हु' इत्यादि-मा त्वं लालाप्रत्याशी भूयाः, चः समुच्चये हुरवधारणे, लाला-मुखश्लेष्मसंततिस्ता प्रत्य- सूचनम्। शितुं शीलमस्येति लालाप्रत्याशी । यथा हि वालो मुखनिर्गतामपि लाला सदसद्विवेकामावात् पुनरप्यऽश्नाति, एवं त्वमपि लालावत् त्यक्त्वा भोगाशा मा प्रत्याश्नीहि, वान्तस्य पुनरभिलाषं मा कुरु इत्यर्थः । किन्तु 'मा तेसु 'ति-मा तेष्वात्मानं तिरश्चीनमापादयः-ज्ञानादिकार्ये प्रतिकूलतां मा विदध्याः । तत्राप्रमादवता भाव्यं, प्रमादवांश्चहैव शान्तिन लभते । यतः 'कासंकासे 'चि- भोगाभिलाषी किंकर्तव्याकुलो भवति, इदमहमकार्ष इदं च करिष्ये इति स्वास्थ्यं न लभते बहुमायी। कार्षकपो हि कषायैर्भवति । मायाग्रहणेऽपि चत्वारोऽपि कषाया गृहीताः । 'कडेण मूढे '-करणं कृतं तेन मूढः किंकर्त्तव्यतामूढः आकुलश्च सुखार्थी दुःखमश्नुते । स एव काषंकषो बहुमायी कृतेन मृढस्तत्करोति येनात्मनो वैरानुषङ्गो-वैरं वर्द्धत इत्याह-'पुणो तं करेह-मायावी परवचनबुद्धया पुनरपि तल्लोभानुष्ठानं तथा करोति, येनात्मनो वैरं वर्द्धते इत्याह'जमिणं 'ति यदिति यस्मादस्यैव विशरारोः शरीरस्य परिबृंहणार्थ प्राणघातादिकाः क्रियाः करोति, ते च तेन हताः प्राणिनः पुनः शतशो मन्ति, अतो मयेदं कथ्यते । काषंकषः पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्द्धयति । अपरं च ' अमराय' इति-अमरायते- अजरामरत्वं मन्यते । कोऽसौ ? ' महासड्डी 'चि- अर्थात्पूर्वोक्तेषु भोगेषु महाश्रद्धी-131॥७५॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy