________________
बाचाराङ्गखदीपिका
तस्यान्तर्वहिरेक वाप्रकटनम्।
॥७४॥
संसारे पर्यटन् आयतचक्षुषो गोचरीभवन् कामामिलापनिवर्चनाय न प्रमवति । अपि च 'संधिविदिता' इत्यादि-इह मायेषु-मनुजेषु यो ज्ञानादिको भावसन्धिस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति-'एस वीरे इत्यादि- एष एव वीरः कर्मविदारणात् प्रशंसितः-स्तुतः, कैः । विदितपरमार्थे : सुविहितः, । एवंभूतः किमपरं करोति । इति चेदाह- 'जे पद्धे' इत्यादि-यो बद्धान् द्रव्यमाववन्धनेन, स्वतो विमुक्तोऽपरानपि मोचयति । एतदेव द्रव्यभावबन्धनविमोक्षं वाचो युक्त्याऽऽचष्टे-'जहा अंतो' इत्यादि- यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनं मोचयति, एवं पुत्रकलत्रादि बाघमपि, यथा बाह्य-बन्धुवन्धनं मोचयत्येवं मोक्षगमनविघ्नकारणमान्तरमपीति । यदि वा यथा स्वकायस्यान्तः-मध्ये अमेध्यकललपिशितासृक्पत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या अमेध्यपूर्णघटवत् । यथा वा बहिरसारता तथाऽन्तोरपीति । किश्च-'अन्तो' इत्यादि देहस्य मध्ये पूत्यन्तराणि पूतिविशेषान् देहान्तराणि- देहस्यावस्था. विशेषान् इह मांसं इह रूधिरं इह मेदो मजा वा इत्येवमादीनि पूतिदेहान्तराणि पश्यति-यथावस्थितानि जानाति । 'पुढोवि' इत्यादि-पृथक्-प्रत्येकमपि, अपिशब्दात्कुष्ठाद्यवस्थायां योगपद्येनापि अवन्ति- नवमिः श्रोतोभिः कर्णाक्षिमललालाप्रश्रवणोच्चारादीन, तथाऽपरव्याधिविशेषापादितव्रणादिपूतिश्रोणितादीनि वा । यद्येवं ततः किं ? 'पंडिए'त्ति- एतानि गलच्छोणितरोमकूपानि पण्डितो-विद्वान्, 'पडिलेहाए'त्ति-प्रत्युपक्षेत यथावस्थितस्य स्वरूपं जानाति । तदेवं पूतिदेहान्तराणि | पश्यन्-पृथक पृथक सवन्तीत्येवं प्रत्युत्प्रेक्ष्य किं कुर्यादित्याह- . __" से मइमं परिनाय मा य हु लालं पञ्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे बहुमाई कडेण