________________
॥७३॥
प्रमादवर्जिसाधुस्वरूपम्।
ऊASEGARDS
'कामा' इत्यादि-कामा इच्छामदनरूपा दुरतिक्रमाःन च तत्र प्रमादवता भाव्यम् । यतः 'जीविय'ति-जीवितमायुष्कं तत् क्षीणं सत् दुःप्रतिबृहणीयं, दुरभावार्थे, नैवं वृद्धि नीयते । येन चाभिप्रायेण कामाः तमभिप्रायमाविःकुर्वनाह'कामकामी' कामान् कामयितुं शीलमस्येति कामकामी। खलुरवधारणे । अयं पुरुषो जन्तुर्नानाविधदुःखविशेषान् प्राप्तः सन् ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च शोचति शोकमनुभवति । तथा 'जूरह 'ति-हृदयेन खिद्यते । 'तिप्पइ 'चि-तेपतेक्षरति भ्रश्यति शरीरमानसैर्दुःखैः पीब्यते । परितप्पइ 'चि-परिः समन्तात् बहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति । कः पुनरेवं न शोचत ? इत्याह- .
"आययचक्खु लोगविपस्सी, लोगस्स अहो भागं जाणइ, उहुं भागं जाणइ, तिरिय भागं जाणइ, गहिए लोए अणुपरियट्टमाणे, संधि विइत्ता इह मच्चिएहिं, एस वीरे पसंसिए, जे बद्धे पडिमोयए, जहा अंतो वहा बाहिं, जहा बाहिं तहा अंतो, अंतो अंतो | पूइदेहंतराणि पासइ, पुढोवि सवंताई पंडिए पडिलेहाए"
'आयय' इत्यादि-आयत-दीर्घमैहिकामुष्मिकापायदार्श चक्षुः-ज्ञानं यस्य स तथा। कः पुनरित्येवंभूतो भवति इत्याह'लोगविपस्सी 'ति-लोकं विषयाभिलाषावाप्तदुःखं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलमस्येति लोकविदर्शी। स एवंविधो भवति, 'लोगस्स अहो भागं'ति-लोकस्याघोभागं जानाति, अत्र लोकशब्देन चतुर्दशरज्वात्मका, तस्याधोभागं नरकादिदुःखरूपं स्वरूपतोऽवगच्छति, एवमूर्द्ध-सुखानुभवं, तिर्यग्भागमपि जानाति, यदिवा गृद्धमभ्युपपन्न लोकं पश्यतीत्याह-'गड्डिए' इत्यादि- अयं हि लोको गृद्धोऽध्युपपन्नः कामानुषले, तत्रैवानुपरिवर्चमानोऽपि, तअनितकर्मणा
PASSARASWAROO