________________
कुर्यादित्याह-'वत्थं पडिग्गह' इत्यादि एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु जानीयात्-शुद्धाशुद्धतया परिच्छन्द्यात्, परिच्छेदश्चैवंरूपः, शुद्धं गृह्णीयात् अशुद्धं परित्यजेत् । किञ्च-जानीयात् वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा पतद्ग्रह-पात्रं तेन पात्रषणा सूचिता, कम्बलं औणिकः, पादपुञ्छनक-रजोहरण, एभिः सूत्रैरौधिकोपधिरौपग्रहिकश्च सूचितः । तथैतेभ्य एव वस्त्रेपणा पात्रैषणा च निढा । तथा 'उग्गहत्ति'-पञ्चविधाऽवग्रहो देवेन्द्रादिः । अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ निर्यढा । तथा कटाशनं-संस्तारकः । एवं वस्वाहारादीनि चैतेषु आरम्भप्रवृत्तेषु परिव्रजन् यावल्लाभं गृण्हीयादुत कश्चिन्नियमोऽप्यस्ति ? इत्याह___" लद्धे आहारे अणगारो मायं जाणिजा, से जहेयं भगवया पवेइयं, लाभुत्ति न मज्जिज्जा, अलाभुत्ति न सोइजा, बढुपि लर्बु न निहे, परिग्गहाओ अप्पाणं अवसक्किजा”
लद्धे आहरे'चि लब्धे प्राप्ते सति आहारे वस्त्रौषधादिके चानगारो भिक्षुर्मात्रां जानीयात्-यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्चते, यावन्मात्रेण वात्मनो विवक्षितकार्यनिष्पतिर्भवति तथाभूतां, मात्रामवगच्छेदिति भावः। एतच स्व. मनीषिकया नोच्यत इत्यत आह-'से जहेय'ति स यथेति भगवता प्रवेदितं कथितं, किं तदाह-'लाभो त्ति-लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो ! अहं लब्धिमानित्येवं मदं न विदध्यात्, न च तदभावे शोकाभिभूतमनस्को भूयादित्याह-अलामे सति शोकं न कुर्यात् , मन्दभाग्योऽहं याच्यमानो न लमे । अतस्तयोर्लाभालाभयोर्माध्यस्थ्यं मावनीयम् । उक्तं च लभ्यते | लम्यते साधु, साधु एव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् ॥१॥ तदेवं पिण्डपात्रवस्त्राणामेषणा निवेदिता।
मेषणा निवेदिता।
%ACEBCALORERAGE
वनपात्ररजोहरणकटाशनादि स्वो
पयोगि | गृहीत्वा ।
रागद्वेषौ वर्जनीयो।
॥१॥